________________
३ सर्गः]
हीरसौभाग्यम् । कूलंकषा मखमुजामिव केकियान___ माखण्डलामृतमयूखमुखी जयं वा ॥ २९ ॥
आमोदमम्बुरुहिणीव विजृम्भमाणा ___ पञ्चार्चिषं शुचिमरीचिचकोरचक्षुः ! सौदामनीवलयमम्बुदमालिकेव
पृथ्वीव तीर्थमनघं कृषिमुर्वरेव ॥ ३० ॥ पीयूषकान्तिमिव दुग्धपयोधिवेला
सिंहं महामृगरिपोरिव वा महेला। . . विश्वावबोधमिव वासरवक्रलक्ष्मीः
श्रीखण्डसालमिव वा मलयांचलो: ॥ ३१ ॥ शृङ्गारयोनिमिव नीरजनाभपत्नी .. राज्ञः प्रतापमिव वा जगतीजयश्रीः। आचार्यमध्वरभुजामिव फाल्गुनी सा . नाथी क्रमेण तनयं अनयांचकार ॥ ३२॥
. (सप्तभिः कुलकम्) ... सा नाथी क्रमेण परिपाट्या तनयं नन्दनं जनयांबभूव जनयति स्म । कस्मिन्सति । लग्नं मूर्त तनुभवनं गुरौ बृहस्पती, तथा शिखिनि केतुग्रहे । 'अश्लेषाभूः शिखी केतुः' इति हैम्याम् । शीलति भजति सति । किंभूतं लग्नम् । युग्मं मिथुनमिति नाम यस्य इति गुरुकेतूलग्ने । पुनः कस्मिन्सति । भूमीभवे मङ्गले कन्यां भजत्याश्रयति सति । कस्मिनिवं । खिड्ग इव । यथा विटः कन्यां कुमारिकामपरिणीतां त्रियं भजते । इति कन्यायां मङ्गलः । पुनः कस्मिन्सति । सितमरीचेश्चन्द्रस्य सुते बुधे च पुनः सिते शुके सति । किंभूते बुधे शुक्रे च । याते प्राप्ते। काम् । तुलां तुलानामलमम् । अर्थात्तुलायां बुधे शुक्रे च सति । अपि पुनः । सूरे सूर्ये अलिनाम वृश्चिकलग्नं तत्र यो विलासः । 'लस श्लेषणक्रीडनयोः' इति धात्वर्थात् । श्लेषणमाश्रयणं स्थितिः तत्र शीलं खभावो यस्य । क इव । सारस इव । यथा सारसपक्षी आल्या श्रेण्या कृत्वा यो विलासः क्रीडय गमनमासनं च तत्र खभावो यस्य यथा । 'श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् । सारसैः कलनि दैः कचिदुन्न मिताननौ ॥' इति रघौ । इति चतुर्थे वृश्चिके सूर्यः । पुनः । राही विधुतुदे धनं धनलग्नं अपने सति । कस्मिन्निव । सुकृतिनि । यथा पुण्यवान् धनं द्रव्यं प्रपद्यते प्राप्नोति। इति धने राहुः। च पुनः । विधौ चन्द्र मकरो मकरलनं