SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ९८ काव्यमाला। भुखमण्डलं यासां तथा तिरस्कृता आच्छादिता शशाङ्कस्य चन्द्रस्य कान्तिश्रन्द्रिका याभिस्तथा काय पयोवाइपानीयाय लापाः कुटुम्बीजनजेगीयमानरासकातरुच्चं मेघागमविलोकनार्थमूर्ध्व मुखं वदनं येषां तादृशा मण्डला देशा यासु इति । तादृशा जना विश्वलोकाश्च यया ॥ वंश्यैः सुधाशनचिकित्सकयोरिवाभ भूत्याविनिर्मितिविशारदतां दधानैः। . अध्यूपिरेऽखिलभिषग्वृषभैर्महेभ्य: जम्भद्विषद्भवनगर्भभुवः प्रदेशाः ॥ २५ ॥... अर्भस्य बालकस्य भूत्याया विनिर्मिती करणे विशारदतां पाण्डित्यं दधानैर्बिभ्रद्भिः अखिलेषु समग्रेषु भिषक्षु वैद्येषु प्रधानत्वाद्वषभाः पुङ्गवास्तैः । दायीप्रमुखरित्यर्थः । तथा 'कुमारभृत्याकुशलैरधिष्ठिते भिषरिभराप्तैरथ गर्भवेदमनि' इति रघौ । महेभ्येषु महाव्यवहारिषु जम्भद्विषतः शक्रस्य सर्वोत्कृष्टत्वात्कुंरासाहस्य भवनस्य गेहस्य गर्भभुवो मध्यभूमेः प्रदेशा विभागा अध्यूर्षिरे । आशिश्रियिरे । संश्रिताः । उत्प्रेक्ष्यते । वैद्यैः सुधाशनानां देवानां चिकित्सकयोवैद्ययोर्दस्रयोः स्वर्लोकवैद्ययोर्वश्यैर्गोत्रे समुत्पनैरिव ॥ इति प्रसवसमयः ॥ लग्नं गुरौ शिखिनि शीलति युग्मनाम । भूमीभवे भजति खिड्ग इवाथ कन्याम् । याते तुलां सितमरीचिसुते सिते च . सूरेऽपि सारस इवालिविलासशीले ॥ २६ ॥ राही पुनः सुकृतिनीव धनं प्रपन्ने । ___ पत्यौ रतेरिव विधौ मकराश्रयेव । मीनं शनी सलिलवन्मदयत्यदीन मित्थं ग्रहेषु तदयाभ्युदयावहेषु ॥ २७ ॥ विश्वावनीधरशिलीमुखपूषसंख्ये संवत्सरेऽवनिपुरंदरविक्रमार्कात् । मासः सहस्य विशदश्रियमाश्रयन्त्यां जन्मानुभावत इवास्य तिथौ नवम्याम् ॥ २८॥ लग्नोदयेऽथ शुभशंसिनि सार्वभौम जन्मोचितेऽहनि ससाधिमधिष्ण्ययोगे।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy