________________
३ सर्गः]
हीरसौभाग्यम् । इति । सुरभिदिग्वलयो वसन्तोऽपि । विविधविकसिततरुकुसुमपरिमलेः सुगन्धी कृताखिलदिक्चक्रः स्यात् । इति हेतोः स्मितास्या हसितवदना नाथीदेवी ग्रीष्माग्रजेन निदाघसमयबद्धधात्रा उष्णकालात्प्रथमजत्वेन वसन्तानन्तर हि ग्रीष्मसमयोद्भवनात् । ऋतुना वसन्तऋतुना समं साधै प्रीतिं नेहं प्रणेतुं कर्तुं हृदि चित्ते कामयते स्म ईहते स्म ॥
तस्याः सुतो रविरिवाम्बुजपाणिविश्व
चक्षुः प्रबोधकरकृत्ततमा महखी। भावी यतः किमिति पद्मदृशा च काझे
तन्मण्डलं स्वसदनेऽनिशमुजिहानम् ॥ ९॥ यतः कारणात्तस्या नाथीदेव्याः सुतः पुत्रो रविर्भानुमानिव अम्बुजे पद्मे इव पाणी हस्तो यस्य । तया-अम्बुजमाकृत्या कमलं पाणौ यस्य । तथा-विश्वस्य जगजनस्य धर्ममागंप्रकाशकत्वेन चक्षुरिव चक्षुः । तथा प्रबोधं तत्त्वज्ञानं तस्य करः कारकः । प्रतिबोधदायक इत्यर्थः । तथा कृत्तं छिनं तमः पापमज्ञानं वा येन स तादृशो भावी भविष्यति । रवि. स्तु-कमलकलितकरः जगच्चक्षुर्नामा । प्रबोधो विनिद्रता जागरणं तत्कारकः दलितान्धकारश्च वर्तते । पुनः किंभूतः । महस्वी प्रतापवान् । कुदृशामधृष्यः । अथ वाउत्सववान् । उत्सववाच्यपि महःशब्दः सकारान्तोऽप्यस्ति । यथा नैषधे–'एनं महस्विनमुपैहि सदारुणोच्चैः' इति । महस्विनमुत्सववन्तामेति तद्वृत्तिः । यत्र यत्रैष व्रजति तत्र तत्रोत्सवपरम्पराः पदे पदे भविष्यन्तीत्यर्थः । रविरपि तेजस्वी इति हेतोः किमुस्प्रेक्ष्यते । पद्मशा कमललोचनया नाथीदेव्या तया तन्मण्डलं रविबिम्बमनिशमहोरात्रं स्वसदने निजमन्दिरे उजिहानमुदयमानं चकाङ्के वाञ्छितम् ॥
स्वः सानुमन्तमधिरोदुमथात्मदर्शी.. कर्तु विधुं पुनरपांपतिमुत्तरीतुम् । सिद्धालयेष्वपि समाजयितुं जिनान्सा
गर्भानुभावत इयेप यथार्हदम्बा ॥ १० ॥ सा नाथी गर्भानुभावतः शुभगर्भप्रभावात् स्वः सानुमन्तं सुमेरुम् । 'रत्नसानुः सुमेरुः स्वः स्वर्गिकाञ्चनतो गिरिः' इति हैम्याम् । अधिरोढुमध्यासितुं चढितुम् । अथ पुनविधुं चन्द्रमसमात्मदर्शीकतु दर्पणं विधातुम् । स्वाननविलोकनायेति शेषः । पुनरन्यत् । अपांपतिं समुद्रमुत्तरीतुं स्वभुजाभ्यामखिलमपि जलमाक्रम्य तीा परतटे प्रयातुम् । अपि पुनः सिद्धालयेषु शाश्वतजिनप्रासादेषु जिनान् शाश्वतनाममाज ऋषभवर्धमानचन्द्राननवारिषेणान् तीर्थकृत्प्रतिमाः सभाजयितुं पूजयितुम् । 'सभाजनं तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा' इति नैषधे । सभाजन पूजनमिति तद्वत्तिः । 'सभाजनार्थ