SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ९२ काव्यमाला। सभाजयति' इति क्रियाकलापे । तथा 'ध्रुवा विनिर्दिश्य सभा सभाजितम्' इत्यपि नैषधे । सभया सभाजनेन सभाजितं पूजितमिति तद्वत्तिः । अथ प्रस्तुतम्। इष पूर्वोक्तं मन्द. राधिरोहणादि सर्वमपि वाञ्छति स्म । केव । अर्हदम्वेव । यया जिनजननी श्रीजिनमभानुभावात् पूर्वोक्तप्रकारानन्यानपि शुभदोहदोद्भुतप्रकारान् का इति स्म ॥ इति दोहदाः॥ तद्दोहदप्रकरपूर्तिविधौ सुपर्व__ वल्लया विधेरिह तथा स्पृहया व्यलासि । श्रेयोवतामिव ततिः परिपूर्णकामा जज्ञे यथानतिचिरादियमायताक्षी ॥ ११ ॥ इहास्मिञ्जगति तस्या गर्भवत्याः दोहदानां गर्भानुभावोद्भूताभिलाषाणां प्रकरस्य समूहस्य प्रपूर्तिविधी प्रकर्षेण संपूर्णीकरणप्रकारे सुपर्ववल्या कल्पलतातुल्यया विधेर्जगत्सृष्टिकर्तुः स्पृहया वाञ्छया तथा तेन प्रकारेण व्यलासि विलसितं प्रवृत्तम् । तथा कथम् । यथा आयताक्षी आयते प्रसूतिप्रमाणे कर्णान्तं यावत्प्रसूते वा अक्षिणी नेत्रे • यस्याः सा इयं नाथी अनतिचिरात्स्तोककालादेव परिपूर्णकामा संपूर्णीभूताभिलाषा निवृत्तमनोरथा जझे जाता । केव । श्रेयोवतां ततिरिव । यथा पुण्यात्यानां जनानां श्रेणी अभिलाषावि. भवनानन्तरं त्वरितं प्रबलपुण्यवत्त्वात्पूर्णमनोरथा जायते ॥ सा दोहदोदयकृशीकृततत्प्रपूर्ति संप्रापितोपचयसंचरचारिमश्रीः । भाति स्म फाल्गुनविपत्रितचैत्रसान्द्री भूतावनीरुहततिविपिनस्थलीव ॥ १२ ॥ सा नाथी भाति स्म । किंभूता । पूर्व तेषां दोहदानां जगत्प्रशस्यानामुदयेनाविर्भावेन कृशीकृता दुर्बला विहिता पश्चाच्चं तेषां दोहदानां प्रपूर्त्या प्रकर्षेण पूरणेन संपूर्णीभवनेन संप्रापितः सम्यकप्रकारेण लम्भित आसादितो वा उपचयः पुष्टिर्यस्य येन ना तादृशस्य संचरस्य देहस्य चारिम्णो मनोहरतायाः श्रीर्यस्याः, चारुत्वयुक्ता लक्ष्मीर्यस्याः सा वा, समासान्तविधेरनित्यत्वात् । केव । विपिनस्थलीव यथा वनभूमि ति । किंभूता वनस्थली। प्रथमं फाल्गुनेन फाल्गुनिकमासेन विगतानि पत्राणि पर्णानि येभ्यस्ते विपत्राः। विपत्रान् करोतीति विपत्रयति । 'तत्करोति तदाचष्टे' इतीप्रत्ययः । विपश्यन्ते स्म इति विपत्रिताः । अथवा । विपत्रत्वं संजातमेष्वेषां वा । 'इतो जाताथै' इतीत प्रत्ययेऽपि । विपत्रिताः पत्ररहिताः कृता इत्यर्थः । पश्चाच्चैत्रेण मधुमासेन सान्द्रीभूताः पल्लवपुष्पफले. घनच्छाया जाता अवनीरुहा वृक्षास्ते विद्यन्ते यस्यां सा ॥ निस्तीर्य दोहदभवातिमथैणचक्षु र्मेदवितामवयवेषु बभौ वहन्ती ।।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy