SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तया अम्बुजशा नलिननयनया । उत्प्रेक्ष्यते । इति किं कारणात्ताभिः सुरीभिः सार्ध सौहार्दै मैत्र्यं विधातुं कर्तुं हृदि चित्ते काम्यते स्म वाञ्छयते स्म । इति किम् । यददसीयसूनो थीनन्दनस्य गुणान् शमदमसंयमगाम्भीर्यधैयाँदार्यस्थैर्यादिकान् सुमनसां देवानां तादृशापरानन्यागण्यग्रामगानश्रवणेन निजस्त्रैणोपरि नाभ्यसूयन्ति प्रत्युत प्रमोदन्ते इति सुमनसः । तेषामेणीदृशो वशादेव्यः प्रेम्णा हृदयहार्दन स्नेहेन गास्यन्ति । किंभूता देव्यः । अनुगुणीकृताः स्वस्वरानुयायिनीविहिता निजालाप्रसदृशीकृता वेणवो वंशास्तथा वीणा याभिः ॥ शौण्डीर्यचक्रमणचारिमदानलीला श्रीभिर्यतो मम सुतस्तमधो विधाता । आरोढुमन्तरिति जम्भनिशुम्भकुम्भि- . . . . कुम्भस्थले किमनया हृदि काम्यते स्म ॥ ७ ॥ अनया नाथीदेव्या । किमुत्प्रेक्ष्यते । इति हेतोः जम्भनिशुम्भस्य शक्रस्य कुम्भिन ऐ. रावणस्य कुम्भस्थले स्कन्धप्रदेशे आरोढुं चरितु काम्यते स्म चकमे । कुम्भस्थले चढित्वा उपवेष्टुं वाञ्छ्यते स्मेत्यर्थः । यतो यस्मात्कारणात् । शौण्डीर्यस्य पराक्रमस्य । 'पौरुषं विक्रमः शौर्य शौण्डीर्य च पराक्रम' इति हैम्याम् । तथा-चमणचारिम्णो मन्थरगतिविलासमञ्जुलत्वस्य, तथा-दानस्य विश्राणनस्य मदवारिणो वा, लीला आधिक्यातिशयविलासास्तासां श्रीभिः कृत्वा मम सुतो नन्दनस्तमैरावणमधो विधाता अधः कर्ता। तिरस्करिष्यतीत्यर्थः ॥ यत्तत्सुतो मधुरिवावनिजत्रजानां ___ कर्ता यशःसुरभिदिग्वलयः प्रबोधम् । प्रीति प्रणेतुमृतुना किमिति स्मितास्या ग्रीष्माग्रजेन सह कामयते स चित्ते ॥ ८ ॥ यद्यस्मात्कारणात् तत्सुतस्तस्या नाथीदेव्याः सुतः पुत्रः, मधुरिव वसन्तसमयवत् अ. वनौ पृथिव्यां जाता अवनिजा जना द्रुमाश्च । 'भुविदिविजमहि(ही ?)यम्' इत्यजितशान्तिस्तववचनात् । भुविजा जना दिविजा देवाः अलुक्समासेन नामानि यथा “दिविषदो देवाः' 'क्षितिरुहः कारस्करो विष्टरः' इति हैम्याम् । तथा 'नृत्यन्ति भीमानुजगोजभाजः'। भीमानुजोऽर्जुनः स एव गोजः शाखी तं भजन्ते इति विदग्धमुखमण्डने। तेषां व्रजास्तेषां प्रबोधं प्रतिवोधं विकाशं कर्ता करिष्यति । किंभूतस्तत्सुतः । यशोभिः कीर्तिभिः सुरभि सुगन्धं वासितं दिग्वलयं दिशां विभागो यस्मात् । अथ वा । यशःसुरभीकृत. दिग्वलयः यशसा स्वकीर्त्या सुरभीकृतं सकलदिमण्डलं येन । कृतमध्यमपदस्य लोपे निमित्ताभावे नैमित्तिकस्याप्यभावः । कृधातौ परे च्चिप्रत्यय निमित्ते गते दीर्घस्याप्यभावो जात
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy