________________
ܕܐ
काव्यमाला ।
भानुवत्स्वयं दीप्यमानो मातुश्च दुःप्रेक्ष्यतेजः करोति। यथा-धामैकधामगगा(गा?)या गङ्गाया इव भास्करम् । गर्भमन्तर्दधानाया दुरालोकमद्वपुः ॥' इति पाण्डवचारेत्रे । गर्भोऽस्त्यस्या एतावता नाथीदेव्या भास्वत्संनिभो गर्भो भावीत्यसूचि । पुनः किंभूता । गर्भोद्भवात्खेदादल्पीभवत्तारकवदुज्ज्वलमौक्तिकाभरणानि यस्याः । 'शरीरसादादसमग्रभूषणा' इति रघुकाव्ये ॥
तमस्विनीशेऽस्तमिते प्रकाशतां विलोकयास्ये दंधतेऽखिला दिशः । कलङ्किदोपाकररुद्रसङ्गिनां वहन्ति केन व्यसनोदय मुदम् ॥ १३३ ॥ हे स्वामिनि, त्वं विलोकय निरीक्षस्व । तमस्विनाशे निशानायके चन्द्र अस्तं नाशं क्षयं वा इते प्राप्ते सति अखिलाः मी अपि दिश: आस्ये मुखे प्रकाशतां प्रकटतां नक्तं तु तमिस्रवस्त्रेणाच्छादितत्वादव्यक्तता जातासीत् । प्रभाते पुनस्तमःपटोत्मारणाप्रकटत्वं हर्षहास्यं वा दधते धारयन्ति । 'प्रकाशः स्फुटहास्ययोः' इत्यनेकार्थः । युक्तो: ऽयमर्थः । कलङ्किनामपवादवताम् । 'कलङ्कोऽङ्कापवादयोः । कालायसमलावपि' इत्यनेकार्थः । तथा दोषाकराणां निखिलापगुणखनीनां रुद्रस्य चण्डस्य जनसंहारकारिणः सङ्गोऽस्त्येषामिति रुद्रसङ्गिनस्तेषाम् । 'क्षये जगज्जीवृषिवं शिवं वदन्' इति नैषधे । पश्चात्कर्मधारयः । पाप्मवतीपतीनां च । 'तमोऽज्ञानेऽन्धकारे च पाप्मनि' इत्यनेकार्थः । पुंसा व्यसनोदये आपत्प्रकटीभावे के जना मुदं हर्ष न वहन्ति विभ्रति । अपि तु सर्वेऽपि मुदमावइन्ते ॥
इतः श्रियानिर्जितविश्वयौवते समुजिहानः सविता निपीयताम् । किमु स्फुरद्भाग्यभरो विभावरीवियुज्यमानद्विजसंततेरसौ ॥ १३४ ॥
हे श्रिया स्ववपुर्लक्ष्म्या निर्जितानि पराभूतानि विश्वेषां त्रयाणां जगताम् । त्रैलोक्यस्यापीत्यर्थः । यौवतानि युवतीसमूहा यया तस्याः संबोधने श्रियानिर्जितविश्वयौवते । अ. लुक्समासः । हे स्वामिनि, इत: अस्मिन् पार्श्व । प्राच्या दिशीत्यर्थः । उजिहानः समभ्युदयन्। 'मुखेन्दुनानेन सहोजिहानाम्' इति नैषधे। 'उजिहानामुदयन्तीम्' इति तद्वृत्तिः। सविता सूर्यस्त्वया निपीयतां सादरमवलोक्यताम् । यथा सूर्योदयः संजातस्तथा तवापि कुल दिनकरः पुत्रः संजात एवेति सादरत्वम् । किमुत्प्रेक्ष्यते । विभावाँ निशायां वियुज्यमानानां वियोगमाप्नवतां द्विजानां पक्षिणामांचक्रवाकविहंगमानाम् । 'विहगयोः कृ. पयैव शनैर्ययोरविरहविरहध्रुवभेदयोः' इति रघुवंशे । संततेः श्रेण्याः असौ सूर्यलक्षणः स्फुरन् प्रकटीभवन् भाग्यभरः पुण्यसमुदय इव ॥
। निरित्वरीभिर्मधुपीभिरुल्लसत्सरोजकोशात्सखि मञ्जु गुज्यते । .. किं गायनीभिर्धवलस्य वासरश्रियाजबन्धोः करपीडनोत्सवे ॥ १३५ ॥
हे सखि, उल्लसत्सरोजकोशात् विकसत्कमलमुकुलानिरित्वरीभिनिर्गमनशीलाभिर्मधुपीभिभ्रमरीभिर्मञ्ज मनोहरं यथा स्यात्तथा गुज्यते गुजारवः क्रियते । किमत्प्रेक्ष्यते ।