________________
२ सर्गः
होरसौभाग्यम् ।
संबोधनं हे निजाक्षिलक्ष्मीहसिताब्जखाने। तथा शोभने भ्रुवौ यस्यास्तस्याः संबोधनं हे सुभ्र, तमस्विनीपतिश्चन्द्रोऽस्ततां याति । उत्प्रेक्ष्यते । नपाभराल्लज्जातिशयादिव किम् अधरीकृतो हीनो हितः जित इत्यर्थः । कैः । तवास्यविभ्रमः भवन्मुखश्रीभिः । अत एव किंभूतः । विवर्णताया विच्छायताया आश्लेषो यत्र तादृङ्मुखं यस्य ॥
निजात्यदासीकृतशारदोदयत्सितदाते भृङ्गिततारतारके। . विनिद्रतां वीक्ष्य तवेक्षणाम्बुजे हियेव निद्राति कुमुद्वनं वने ॥१३०॥
निजेनात्मीयेनास्येन कृत्वा दासीकृतः किंकरता प्रापितः शारदः शरत्कालसंवन्धी उदयनभस्युद्गच्छन् सितयुतिश्चन्द्रो यया तस्याः संबोधने निजास्यदासीकृतशारदोदयत्सिताते हे स्वामिनि, वने कानने जले वा स्थलेऽपि कमलिनीकमलसद्भावो दृश्यते । यथा-'ददर्श तत्र स्थलपद्मिनी नलः' इति नैषधे । तथा—'उत्फुल्लस्थलपद्मानभवच्चरणभूषिता' इति चम्पूकथायाम् । कुमुदनं कैरवकाननं निद्राति संकुचति । उत्प्रेक्ष्यते । भृङ्गिते भृङ्गाविवाचरिते श्यामलत्वात् तारे निर्मलतारिके कनीनिके यत्र तादृशं तव श्रीमत्या ईक्षणं लोचनमेवाम्बुजं कमलं तत्र विनिद्रतां विकाशतां वीक्ष्य विलोक्य यदा कमलं विकसति तदा कुमुदं संकुचतीति स्थितिः । हियेव लज्जयेव क(तस्मा. स्वस्य हानश्रीकत्वात्रपा ॥ कृशाङ्गि राजन्यपयातवैभवेऽपराश्रये शोच्यदशावशंवदे ।
शनैः शनैस्तारगणा इवानुगा विभावयाभ्रे विरलीभवन्त्यमी ॥ १३१॥ हे कृशाङ्गि तन्वङ्गि, त्वमने नभसि विभावय पश्य । अपयातवैभवे गतश्रीके राजनि भपाले चन्द्रे च अनुगाः सेवका इव अमी दृश्यमानास्तारगणा ज्योतिर्वजाः शनैः शनैविरलीभवन्ति स्तोका जायन्ते । किंभूते राजनि । अपरेषां सश्रीकाणामाश्रयो भाजनं यस्य । गताखिललक्ष्मीको हि तदर्थ सश्रीकं परं श्रयते इति स्थितिरेवेति । तत्त्वतस्तु अपरस्यां पश्चिमायामाश्रयो वेश्म यस्य । पुनः किंमते । शोच्या शोचनार्हा दशा अवस्था तम्या वशंवदे आयत्ते ॥
प्रपूर्णपाथोरुहबन्धुगर्भिणी तनूभवत्तारकतारभूषणा । हरेहरित्पाण्डुरिमाणमानने बिभर्ति मत्तेभगतेव सुस्मिते ॥ १३२ ॥ सु शोभनं स्मितमीपद्धसनं यस्यास्तस्याः संवोधने हे सुस्मिते । एतावता बहुहासनिषेधः । हरेरिन्द्रस्य हरित् दिक् पूर्वा आनने मुखे पाण्डुरिमाणमौज्ज्वल्यं धत्ते । किंमता। प्रपूर्णः संपूर्णीभूतः प्रसवसमयं प्राप्तः पाथोरुहाणां पद्मानां बन्धुः भास्वान् स एव गोऽस्त्यस्याः । अत एव । पुनः किंभता । तनभवन्तः स्तोकीभावं भजन्तः प्रभातत्वात्तारकास्तारा एव ताराण्येवोज्ज्वला नि भूषणानि यस्याः सा । केव । मत्तभगतेव । यथा आपनमत्त्वा स्त्री के पाण्डुरतां धत्ते । किंभुता । संपूर्णा भाग्यवत्तया