________________
काव्यमाला |
इक्षुडिम्भान्क्षितिरक्षिणो महौजसा समुत्खाय पुनः प्ररोपयन् । स पूर्वपायोनिधिसैकतक्षिति (तो) क्षितेविवदा व्रजति स्न सस्मयः १०७ सक्षितेविवोटा भर्ता भरतभूपतिः पूर्वपाथोनिधेः प्राचीसमुद्रस्य । 'पूर्वपर्वततिरोहितात्मनः ' इति वीरधवलनृपुरोहित सोमेश्वरभविनिर्मित वस्तुपालकी कौमुदीसोदरसुग्थोत्सवकाव्ये । संकते (तक्षिती) जलोज्झितप्रदेशे व्रजति स्म जगाम । किंभूतः । सह स्मयेन गर्वेण वर्तते यः स सस्मयः । किं कुर्वन् । महौजसा सर्वयः सातिशायिना षट्खण्डमण्डित भरतभूमीवलयोद्भव यावद्वाजिवार्णवेसर सैरभ करंभ नृपभयुगलमण्डलाकलितसवालवृद्धवयस्थवशासखपुरुष पौरुपशनाक्रमणीयेन पराक्रमेण अधिका वा । ओजःशब्देन प्रतापोऽपि कथ्यते । यथा नैषधे- 'तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥' इति । क्षितिरक्षिणो भूपालान् । निपयि यस्य क्षितिरक्षिणः कथा:' इत्यपि नैषधे । समुत्खाय राज्याशयित्वा । पुनः पश्चात्प्ररोपवन् । राज्यस्थाने वा स्थापयन् । कानिव । इक्षुडिम्भानिव । यथा कश्चित्कृषिकः इक्षणामं सिपत्रकाणां डिम्भान् प्ररोहान् उत्खाय उप्तस्थानकादुत्खन्यान्यस्मिन्स्थाने प्ररोपयति । 'पलालजा है: पिहितेक्षुडिम्भ:' इत्यपि नैषधे ॥
अनिता नृपैर्वले बिलेशयैरिवैतद्वसुधाधवे दधे ।
विनम्रता च ध्रियते स्म वेतसै रये स्रवन्त्या इव भूरिवेतसैः ॥ १०८ ॥ एतद्वसुधाधवे एतस्मिन् भरतभूपाले सुल्झनामा देशस्तन्नायकैः सुराजैरजिद्मता सरलत्वं दधे धृतं तत्कालमेवागत्य प्रणेमे । कैरिव । यथा बिलेशयैः भुजङ्गमैर्बिले भूगतरन्ध्रे स्वनिवसनस्थाने प्रवेशसमये अजिह्मता अवक्रत्वं ध्रियते । च पुनः अस्मिन् नृपे भरिवैतसैतस्वदेशभूपालैविनम्रता विशेषेण नमनशीलत्रं ध्रियते स्म | कैरिव । वेतसैरिव । यथा वन्त्या नद्या ये प्रवाहे मध्ये तटे वा उद्गमनशीलैर्वे तसनामवृक्षविशेषैर्विनम्रता श्रियते ॥ अवापितो गोचरतां स मागधैरिव स्तवस्य प्रमदेन मागधैः । सृजद्भिरिन्द्रोऽद्रिगणैः कलिं गजैरिवोपलै रुद्धनतः कलिङ्गजैः ॥ १०९॥ स भरतचक्री मागधैर्मगधदेशोद्भवभूपैः प्रमदेन हर्षेण स्तवस्य स्तुतेर्गोचरतविषयत्वम् । दीपाधिपान्नयनयोर्नय गोचरत्वम्' इति नैषधे । अवापितः लम्भितः । कैरिव । मागधैरिव । यथा मागधैर्बन्दिजनैश्चक्रवर्ती स्तूयते । पुनः कलिङ्गदेशभृपैः रुद्धनतः पूर्वं रुद्धः पश्चान्नतः नमस्कृतः । ' पीतप्रतिबद्धवत्साम्' इति रघौ । 'पूर्व पीतः पश्चात्प्रतिबद्धो वत्सो यस्याः सा' इति तद्वृत्तिश्च । “पूर्वकालैकजरस्पुराणनव केवलाः सामानाधिकरणेन' एते समानाधिकरणेन समस्यन्ते स तत्पुरुषः । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे प्रवृत्तिः समानाधिकरणम् । पूर्वकालार्थस्तु अपरकालार्थेन । यथा स्नातानुलिप्तः । पूत्र स्नातः पञ्चादनुलिप्तः । तथा 'तत्पुरुषः समानाधिकरणः कर्मधारयः । समानाभिधेयो