________________
. २ सर्गः होरसौभाग्यम् ।
७५ भरिधूलीपटलेर्मुख वक्रे । उत्प्रेक्ष्यते । इति हेतोः विवर्णता विच्छायता श्यामवं निषेवे भेने । सेवितं धृतमित्यर्थः । इति किम् । यद्यस्मात्कारणादस्मदाश्रया वयमेवाश्रयो निवासस्थानं शरणं वा येषां तादृशा इमे लक्षमिताः शतसहस्रसंख्याकाः क्षितिक्षितो राजानः । अन्ते अर्थादायुषोऽवसाने भवामन्तिमां चरमा संग्रामादिना मरणलक्षणां दशामवस्थामवाप्स्यन्ति लप्स्यन्ते ॥
चमूध्वनिः प्राग्गिरिकंदरोदरे प्रियोपगूढं सुखसुप्तर्फिनरान् । इदं यशो गापयितुं गुहागतप्रतिवनै गरयन्निवोद्गतः ॥ १०४ ॥ अस्य भरतचक्रिणश्चमूध्वनिर्गजवाजिरथपत्तिचतुरङ्गकटककोलाहलशब्द उद्गतः प्रादुर्भूतः । उत्प्रेक्ष्यते । प्रारिगरेः पूर्वाचलस्योदयाद्रे: कंदराणां गुहानाम् उदरे मध्ये प्रियोपगहें प्रियां किंनरीमुपगह्यालिङ्गय । 'क्यबर्थे समासे णमुल' इति प्रक्रियाकौमुद्याम् । चिरविरचितविविधनिधुवनविमोदखेद निद्रालतया क्रीडारसिकतया च स्वस्वसुखेन निरातङ्कया सुप्तान् किनगन् प्रति इदं यशो भरतचक्रिकीर्ति गापयितुं गानविषयां कारयितुं गुहासु गह्वरेषु गतैः प्राप्तैः प्रतिस्वनैः प्रतिशब्दैः कृत्वा जागरयन् प्रषोधयन्निव विनिद्रान् कुर्वन् उत्थापयन्निव ॥
प्रगल्भफालैगगने नखैः पुनर्महीतलस्योत्खननैहयवनः । जयं सृज खर्बलिवेश्मनोयोरथेति संज्ञापयति स्वयं पतिम् ॥ १० ॥ हयव्रजो वाजिबातो .गगने नभोङ्गणे प्रगल्भफालैः प्रकृष्टप्रकयोंल्ललनै हच्चैरुङय. नैर्वा पुनर्नखैः खुरैर्महीतलस्य भूमेर्मण्डलस्य अधःप्रदेशस्य उत्प्राबल्येन खननैः क्षोदनैः । उत्प्रेक्ष्यते । यं पति भरतचक्रिणं स्वं स्वामिनमित्यमुनाकारेण संज्ञापयतीव । इति किम् । यत् हे सार्वभौम, भृमिस्त्वया सर्वापि साधिता । अथ स्वः स्वलोकः, बलि. वेश्म पातालम्, तयोयोस्त्वं जयं सृज साधय । स्वर्गपाताले अपि भूमिवत्स्वायत्तीकुरु इत्यर्थः ॥
पयोधिरोधःस्थलरोधिभिः प्रभोरसजि गर्जाञ्जनबन्धुसिन्धुरैः । . चराचरे वर्षितुमुत्सुकैरितः किमम्बुदैरम्बुजिघृक्षयागतैः ॥ १०६ ॥
प्रभो तक्षेत्रस्वामिनो भरतभर्तुरञ्जनस्य कनलस्य श्यामत्वेन बन्धुभिस्तुल्यैः । अथवा अञ्जनाचलस्य श्यामत्वेन तुगत्वेन वा सदृशैः । अथवा अञ्जनाद्रेः सहोदरैरन्यै. रञ्जनाचलैरिवेत्यर्थः । तादृशैः सिन्धुरैः गन्धगजेनर्जा बंहितं गर्जितमसजि चक्रे । किंभूतैः सिन्धुरैः । पयोधेः समुद्रस्य रोधस्तटस्तस्य स्थलं वेलागमनभूस्तद्रुन्धन्तीत्येवं. शीलैः । उत्प्रेक्ष्यते । इतः समुद्रादम्बुजिक्षया पानीयानां ग्रहणेच्च्या आगतैः किम् अम्बुदैर्मधैरिव । किंभूतैः । चगचरे सर्वजगति भूमीमण्डले वर्षितुं जलवृष्टिं विधातुमुत्सुकैरत्कण्ठितः ॥