________________
७४
काव्यमाला।
यस्येमा यदीयास्तासु भरतचक्रिसंबन्धिनीषु यात्रासु दिग्विजयकृतप्रयाणेषु चमूसमुत्थितश्चतुरङ्गचक्रचलनादुरुड्डीना दिवस्पृथिव्योराकाशभुवोः प्रविसरन्ति विस्तरन्तीत्येवंशीलः पांसुभि लीभिरहदिवसस्त्रियामीयति निशेवाचरति । निःशेषतया रविप्रकाशस्य रुन्धनात् । पुनः पद्मिनीपतिः भास्वान् पतङ्गति खद्योत इवाचरति । किंचिदृश्यमानत्वेन । 'सर्वप्रातिपदिकात् क्विप् वा आचारे' इत्येके । तेन कृष्णवदाचर. तीति कृष्णति' इति प्रक्रियाकौमुद्याम् । तथा पतङ्गति · । पुनस्तस्य भानोः प्रभाभरो ध्वान्तति अन्धकार इवाचरति । भासां श्यामीभूतत्वेन ॥
हरेमहिष्यां हरिति प्रयातवान्य आदितः सादितगोत्रशात्रवः । पतिः सुराणामिव दानवारियुग्गजेन्द्रसिन्धूद्भववाजिराजितः ॥ १०१॥ यो भरतचक्रवर्ती आदितो दिग्विजयकरणव्यतिकरे प्रथमतो हरेरिन्द्रस्य महिध्यां पन्यां हरिति दिशि । प्राच्यामित्यर्थः । 'निजमुखमितः स्मेरं धत्ते हरेमहिषी हारत्' इति नैषधे । प्रयातवान् गतः । क इव । सुराणां पतिरिव । यथा शंक: पूर्वी दिशं प्रति प्रयाति, तत्पतित्वात् । किंभूतो यः शक्रश्च ! सादितं हतं गोत्रं वंशो येषां तादृशाः शा. त्रवा वैरिणो यस्य । यद्वा सादिता निर्मलमुच्छेदिताः गोत्रसहिताः सवंशाः शात्रवा रिपवी येन । पक्षे-सादिता गोत्राः पर्वता एव शात्रवो येन । पुनः किंभूतः । दानवारिभिर्मदजलैयुञ्जन्ति योगं प्राप्नुवन्तीति दानवारियुजो निर्यद्वहुलमदसलिला ये गजेन्द्रा भद्रजातीयगन्धोपलक्षिताः सिन्धुराः [तैः] सिन्धुदेशे उद्भव उत्पत्तिर्येषां तादृशैर्वाजिभिरश्वैश्वि] राजितः शोभितः । पक्षे-दानवानां दैत्यानामरिभिर्वैरिभिर्युनक्तीति । देवयुक्त इत्यर्थः । तथा गजेन्द्र ऐरावणः सिन्धूद्भवः 'समुद्रोत्पन्न उच्चैःश्रवा अश्वः तेन च राजितः । स सिन्धुजं शीतंमहःसहोदरं हसन्तमुच्चैःश्रवसः श्रियं हयम्' इति नैषधे ।।
स सार्वभौमो ध्वजदण्डशेखरीकृतस्फुरत्काञ्चनकुम्भकान्तिभिः । मतङ्गरञ्जनशैलमांसलैः क्षितौ तनोतीव सविद्युदम्वुदम् ॥ १०२ ॥ सर्वस्या भमरीश्वरः सार्वभौमश्चक्रवर्ती स भरतः । उत्प्रेक्ष्यते । सविधुदम्बुदं तडिकलितजलधरं क्षितौ पृथिव्यां तनोतीव करोतीव । कैः । अजननामा शैलः पर्वतः तद्वन्मांसलैः पुटैरुनतैश्च । तादृशैर्मतङ्गजैः स्वसेनाकुन्नरैः । किंभूतैर्मतङ्गजैः । ध्वजानां
पताकानामर्थाद्गजसंबन्धिनीनां दण्डेषु शेखरीकृतानामुत्तंसतां प्रापितानामुपरिस्थि. तानां वा स्फुरतां दीप्यमानानां झगझगितिकान्तीनां काञ्चनकुम्भानां हेमकलशानां कान्तिज्योतिर्येषु तैः ॥
दशामवाप्स्यन्ति यदन्तिमामिमेऽसदाश्रया लक्षमिताः क्षितिक्षितः । विवर्णतेतीव दिगङ्गनागणैर्मुखे निषेवेऽस्य चमूरजोभरैः ॥ १०३ ॥ दिगङ्गनागणैर्हरिद्वधूवृन्दैः कर्तृभिरस्य भरतचक्रिणश्चमूरजोरैश्चतुरङ्गदलचलनोद्भूत