________________
२ सर्गः
हीरसौमाग्यम् । यस्तत्पुरुषः स कर्मधाग्याड्यः स्यात् । पीतश्वासौ प्रतिबद्धश्च । तथा नातश्चासावनुलिप्तश्च । तथा रुद्रश्चासौ नतश्च । इत्येषोऽपि विग्रहस्तेन कर्मधारयगर्मितस्तत्पुरुषः समासः" इति प्रक्रियाको मुद्याम् । किं कुर्वद्भिः । गजैः साधनभूतैर्हस्तिभिः काले संग्राम मुजद्भिः कुर्वद्भिः । कारेव । अद्विगणैः । यथा पर्वतप्रकरैः उपलैः प्रस्तरैः कृत्वा । युद्धं विदधद्भिः सद्भिरिन्द्रो रुध्यते प्रणम्यते च ॥
चतुर्दिशामप्ययमर्णवावधीनिति प्रदेशाध्वजिनीभिरानशे । विभासिताभिः मितसिन्धुरश्रिया यथाभ्रिकाभिः प्रसरत्पयोधरः।।११०॥
अथ भरतसार्वभौम इत्यमुना प्रकारेण ध्वजिनीभिः सेनाभिः कृत्वा चतस्रश्च पूर्वदक्षिणपश्चिमोत्तरलक्षणास्ता दिशश्च चतुर्दिशस्तासाम् । कथम् । अपि चतसृणामपि दिशामित्यर्थः । प्रदेशान् विभागान् आनशे व्याप्नोति स्म । किंभूतान्प्रदेशान् । अर्णवः समुद्रोऽवधिर्मर्यादा यस्य । अथवा अर्णवाचत्वारः समुद्राः । 'पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोवीम्' इति रघुकाव्ये । तथा 'चतु: समुद्रो परिखे नपाणामन्तःपुरे वासित कीर्तिदारे । दानं दया सूनृतमातिथेयी चतुर्यः रक्षणसौविदल्लाः ॥' इति नैषधे । 'वासिता रक्षिताः कीर्तय एव दारा यत्र । तादृशे चतुरणवखातिके भूमीमण्डले एव नृपा. णामन्तःपुरे दानं, कृपा, सत्यवचनम्, अतिथिसक्रिया, एतच्चतुष्टयी तदन्तःपुररक्षणार्थ सौविदलाः कश्चकिनः । एभिश्चतुभिः प्रकारैविना कीर्तिन तिष्ठति ।' इति तद्वृत्तिः । अतश्चत्वारः समुद्रा मर्यादा येषां ते । किंभताभिर्ध्वजिनीभिः । सितानां भद्रजातित्वेन शुभ्राणां सिन्धुराणां हस्तिनां श्रिया शोभया विभासिताभिः शोभिताभिः । क इव । प्रसरत्पयोधर इव । यथा श्वेतगजेन ऐरावणेन । 'प्रावृषेण्यं पयोवाहं विद्युदैरावताविव' इति .रघौ । अब वा अनस्य मेघस्य मातङ्गो हस्ती अभ्रमातङ्गः । 'ऐरावणोऽभ्रमातङ्गश्चतु. ‘दन्तः' इति हेमीवचनात् । विभासिताभिरत्रिकाभिवदलैः कृता गगनाङ्गणविस्तरन्मेघश्चतुर्दिक्प्रदेशान्व्याप्नोति । अत्र यथा इवाथै ॥
अर्थप वेलातटतः समं भेटेन्यवीवृतनीधिनेमिनायकः । गभीररावैरुदरं भरन्भुवो रयः पयोधरिव यादसां भरैः ॥ १११ ॥ अथ चतुर्दग्विजयानन्तरमेघ वर्ण्यमानबलोक नीरधिनेमेरासमुद्रान्तपृथिव्या ना. यकः पतिर्भरतचक्रवती तेलातटतः समुद्रस्य वेलाया जलवृद्धिस्थानकस्य तटात्तीराद्भटैः मेनाचरैः शरैः समं साध न्यवीवृतनिवर्तते स्म । पश्चादवले इत्यर्थः । क इव । रय इव । यथा पयोधेः ममद्रस्य रयः पयःप्रवाहः । 'प्रवाहः पुनरोधः स्याद्वेणी धारा ग्यश्च सः' इति हेम्याम् । यादसां नकचक्रपाठीनपीठादीनां भरैः बजेः साकं वेलातटानिवर्तते । किंमत एष रयश्च । गभीररावैश्चतुरङ्गतुरङ्गगजस्यन्दनपदातिप्रबलबलचलनोद्भूतैः स्वभावजेश्च गम्भीरध्वनिभिः कृत्वा भुवः पृथिव्या उदरं मध्यं भरन् पूरयन् । अथ वा 'पृथिवी पपूरयन्' इन्यांप पाठः॥