________________
७२
काव्यमाला।
सत्सु काचिदनिर्दिष्टनामा वयसी सखी इदमग्रे वक्ष्यमाणमालपद्वभाषे । केव । गायनीव । यथा परेष्वन्येषु गान्धर्वाणां गायनानां गीतानां वा । 'गीतं गानं गेयं गीतिर्गान्धर्वम् इति हैम्याम् । रसेषु सत्सु विदुरा गीतिनिपुणी गायनी गान्धर्विका पञ्चमरागस्य प्रपञ्चो विस्तारो यत्र तादृशीं गीतिमालपति । गायतीत्यर्थः ॥ .. पुराभवन्नाभिमहीहिमातेस्तनूभवः श्रीवृषभध्वजो जिनः ।
इवात्मभू राजसभावभासितः ससर्ज यो विष्टपसृष्टिमात्मना ॥ ९५ ॥ हे स्वामिनि, पुरा पूर्व युगस्यादौ सर्वव्यवस्थाप्रादुर्भवनव्यतिकरे नवाशीतिपक्षाधिकव्यशीतिपूर्वलक्षावशेषे तृतीयारकपर्यन्ते नाभिर्नामा मह्यां भूमौ हिमातिश्चन्द्रस्तस्य । 'इदं तमुवीतलशीतलद्युतिम्' इति नैषधे । तनूभवः पुत्रः श्रिया राज्यतीर्थकृलक्ष्म्या युक्तोवृषभः ककुद्मान् कुरुदेशे ध्वजश्चितं यस्य तादृक् जिनस्तीर्थकरः एतावता ऋषभजिनो. ऽभवद्बभूव । स कः । यत्तदोः संबन्धात् यो राज्ञां राजन्यानामिक्ष्वाकुवंशोद्भवानां सभया समूहेन । 'सदेवमणु आसुराए परिसाए समणुगम्ममाणग्गो' इति कल्पसूत्रे । 'पर्षदा समहेन' इति तद्वत्तिः । 'सुरसमाजसमाक्रमणोचितः' । समाजः समूहं इति रघु. वंशे । 'उडुपरिषदः किं नार्हन्ती निशः किमनौचिती' इति नैषधे । नक्षत्रसमुहस्पति तद्वृत्तिः । ततः सभावाचकाः शब्दाः समूहेऽपि दृश्यन्ते । अथवा सभायां परिणदि अवभासितः शोभित उपविष्टः । तादृशः सन्नात्मना स्वेन विष्टपस्य विश्वस्य सृष्टिं सर्वव्यवहारशिल्पकलाराज्यस्थितिप्रजापालनादिसर्ग ससर्ज करोति स्म । क इव । आत्मभरिव । यथा । ब्रह्मा राजसभावेन रजोगुणस्वभावेन भासितः सन् जगत्सर्गे चक्रे ॥
अमुष्य नाभेयजिनावनीनभोमणेरजायन्त शतं तनूरुहाः। पवेरिवानाः क्रतवः शतक्रतोरिव च्छदानीव पुनः पयोरुहः ॥ ९६ ॥
अमुष्य एतस्य नाभरपत्यं नाभेयो वृषभः स एव जिनानां सामान्यकेवलिनां मध्ये अवन्या भूमेरति तेजस्त्वेन नभोमणेः सूर्यस्य । अथवा-अवनीनभोमणी राजा । 'मध्यंदिनावधिविधेर्वसुधाविवस्वान्' इति नैषधे । तथा 'पाण्डोरवनिमार्तण्डस्य' इति पाण्डवचरित्रे । जिनराजस्येत्यर्थः । शतं शतसंख्याकास्तनूरुहाः । 'तनूरुहस्तु पुत्रे गरुति लोनि वा' इत्यनेकार्थः । अजायन्त जाताः । कस्येव । पवेरिव । यथा वनस्य शतमस्राः कोट्यो भवन्ति स्म । पुनः कस्येव । शतक्रतोरिव । यथा इन्द्रस्य शतमिताः क्रतवः प्रतिमा यज्ञा वा आसन् । 'इन्द्रेण कार्तिकश्रेष्ठिभवे पश्चमी प्रतिमा शतवारं व्यूढा' इति कल्पकिरणा. वल्याम् । पुनः कस्येव । पयोरुह इवात्र षष्ठी । यथा कमलस्य शतं छदानि पत्राणि जायन्ते ॥
जिनावनीन्दोः किल धर्मकर्मणोर्व्यवस्थयास्मादुदभावि भूतले । रथाङ्गपाथोरुहयोर्मुदोदितारविन्दिनीवल्लभमण्डलादिव ॥९७ ॥