________________
काव्यमाला।
पाषाणरेखासखी ॥ इति भोजप्रबन्धे क्षीरसमुद्रस्य सुधासमुद्रत्वं प्रतिपादितमस्ति । तथान्यत्रापि काव्यकल्पलताग्रन्थादिष्वपि विद्यते च । अथ वा वदनेन्दोः कथंभतात् । अमृतोर्मिमालिनः सुधासमुद्रात् । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदतां विधौ' इति नैषधे । अथवा 'तदाननेन्दोरमृताब्धिजन्मनः' इति पाठः । सुधायाः किंभृ. तायाः । तदाननेन्दोर्वा किंभूताम् । अमृताब्धिः समुद्रस्तस्माजन्मोत्पत्तिर्यस्या यस्य वा ॥ द्विजावलीचन्द्रिकयानुविद्धया स्मितश्रिया श्वेतितसृक्कदेशया । भुजान्तरामोगविलासिनीरिवोपचिन्वता चञ्चरमौक्तिकावलीः ॥ ८० ॥ निगद्यते स्म व्यवहारिणा क्षणं विमृश्य सा तेन सुकेशमानिनी । रथाङ्गनाम्नेव रथाङ्गबान्धवोदये रथाङ्गी सविधे समीयुषी ॥ ८१ ॥
. . (युग्मम्) तेन व्यवहारिणा कुंरासाधुना क्षणं स्वल्पकालं विमृश्य विचार्य स्वबुद्ध्या सु शोभनाः केशाः कुन्तला यस्याः सा सुकेशी । सुकेशी स्वां मन्यते इति सुकेशमानिनी । 'क्यङ् मानिनोश्च' एतयोः परयोः पुंवद्भावः स्यात् सा नाथी निगद्यते स्म भाषिता । केनेव । रथाङ्गनाम्नेव । यथा रथाङ्गबान्धवस्य भानोरुदये सविधे आत्मनः पार्श्वे समीयुषी समागता रथाङ्गी चक्रवाकी रथाङ्गेन चक्रवाकेन वाद्यते । तेन किं कुर्वता । चश्चुराः प्रधाना मौक्तिकावलीहारानिव उपचिन्वता पुष्णता । किंभूताः । भुजान्तरस्य हृदयस्याभोगो विस्तारस्तत्र विलसन्तीत्येवंशीलास्ताः । तथा . [स्मितश्रिया ईषद्ध सितलक्ष्म्या ।] किंभूतया [स्मितश्रिया । द्विजावलीचन्द्रिकया दन्तपतिज्योत्स्नया । 'दशनचन्द्रिकया व्यवभासितम्' इति रघौ । अनुविद्धया व्याप्तया । पुनः किंभूतया । श्वेतितो धवलीकृतः मुक्कदेश औष्टप्रान्तदेशो यया । ‘दन्तवस्त्रं च तत्प्रान्तौ सक्कणी' इति हैम्याम् ॥ युग्मम् ॥
अनेकपस्वप्ननिरीक्षणादवाप्स्यते तदन्वर्थसुतोऽचिंरात्त्वया । महोदयः केवललम्भतो मुनीसमज्ययेवाम्बुजमञ्जुलोचने ॥ ८२ ॥ हे अम्बुजं कमलं तद्वन्म नी मनोज्ञे लोचने नयने यस्यास्तस्याः संबोधनमम्बुजमञ्ज. लोचने हे प्रिये, अनेकपस्य गजस्य स्वप्नस्य निरीक्षणाद्दर्शनात् अचिरात्स्तोककालादेव तस्यानेकपस्यान्वर्थोऽनेकान् बहून् पाति रक्षति स्वामितया संसाराद्धर्मोपदेशमहाव्रताणुव्रता. दिप्रदानेन तारयतीत्यनुगतार्थो यस्य तादृशः सुतः पुत्रस्त्वया भवत्या अवाप्स्यते । कयेव । मुनीसमज्ययेव । यथा मुनीनां साधूनाम् । मुनीशब्दो दीर्घोऽप्यस्ति । यथा लिङ्गानुशासने'यानीमुन्यौ स्वातिगव्यूतिवस्त्यः' इति । भावचारित्रं विना केवलज्ञानं न स्यादिति मुनीपदो. पादानम् । समज्यया सभया अर्थाद्वन्द्वेन केवलस्य एकागाकारस्य पञ्चमज्ञानस्य केवलज्ञानस्य आसादनात्तृतमहोदयो मोक्षोऽवाप्यते। य उदय आगतः कदापि न याति स एव महोदयः ।। १. अयं पाठ उपचयने हेतुतया योज्यः.