________________
२ सर्गः]
हीरसौभाग्यम् । ह्न इभ्येषु लक्ष्मीवत्सु विभावरीवरश्चन्द्रो मुख्यो विमुद्रणाया जागरणस्य गोचरं विषयं ग मितः प्रापितः । प्रबोधित इत्यर्थः । कयेव । दिवसाननश्रियेव । यथा प्रभातलक्ष्म्यारुणांशुभिर्भानुीकरणैररविन्दानां पद्मानां घृन्दं विमुद्रणाया गोचरं गम्यते । विकाश्यते इत्यर्थः ॥
सुमध्वजोवधिरजैशस्त्रया रहस्यवत्स्वप्न उदात्तनेत्रया । विनिद्रतां लोचनयोवितन्वते न्यवेदि तस्मै व्यवहारिभास्वते ।। ७७ ॥ उदात्ते स्फारे कुमुदकमल कुवलयचकोरहरिणखजनजयनशीले नेत्रे नयने यस्यास्तया तस्मै स्वकान्ताय स्वप्नो निद्रावस्थायां गजेन्द्रदर्शनं न्यवेदि कथितः । किंवत् । रहस्यवत् । यथा रहस्यं स्वाप्रेयाय निवेद्यते । तस्मै किंभूताय । व्यवहारिषु दीप्यमानत्वाद्भास्वते सूर्याय । पुनः किं कुर्वते । विलोचनयोर्नेत्रयोविनिद्रतां निद्राभावात्स्मेरतां तन्वते विस्तारयते । कुर्वत इत्यर्थः । तया किंभूतया । सुमध्वजोवधिरः स्मरराजस्तस्य जैत्रं जगजयनशीलं यत् शस्त्रमायुधं तद्रूपया ॥ . किमावयोरेष फलं प्रदास्यति स्वपाणिसिक्तस्मयमानशाखिवत् । इदं निगद्य प्रमदाद्वसुंधराप्सरा व्यरंसीयवहारिवर्णिनी ॥ ७८ ।। व्यवहारिणः कुंरासाधोर्वणिनी स्त्री नाथी प्रमदादानन्दात् इदमेतदुच्यमानं निगद्य कथयित्वा अर्थाद्भर्तुः पुरः । व्यरंसीद्विरमति स्म । किंभूता । वसुंधराया भूमेदिव्यरूपत्वादप्सराः। 'वातु जलोकोऽप्सरसः । 'सिकताः सुमनः समाः'। एतेषां शब्दानां बहुत्वं वा स्यात् । इति लिङ्गानुशासने । इदं किम् । यदेष गजस्वप्न आवयोर्दम्पत्योः किं फलं प्रदास्यति । किंवत् । स्वपाणिना निजहस्तेन सिक्तो जलेनाभिषिक्तोऽत एव स्मयमानः शाखाप्रशाखापत्रपल्लवपुष्पोपचितो जायमानः शाखिवद्वक्ष इव ॥
तदाननेन्दोरमृतोमिमालिनो गिरं सुधाया भगिनीमिवोद्गताम् । . निपीय कर्णैः पुटकैरिवान्तरा स कूणिताक्षः परमां मुदं दधौ ॥७९॥ स महेभ्यः कुराख्योऽन्तरा हृदयमध्ये परमामुत्कृष्टां मुदं प्रीतिमानन्दं दधौ धारयति स्म । किं कृत्वा । निपीय पीत्वा । सादरं श्रुत्वेत्यर्थः । काम् । गिरं वाणीम् । कः । कणैः श्रवणः । तादृक् शुभस्वप्नश्रवणोत्कण्ठया वारंवारप्रश्ने मुहुर्मुहुः कर्णदानाद्वहुत्वम् । उत्प्रेक्ष्यते । पुटकैरिव । अन्योऽपि रसः पुटकैः पयिते । किंभृतः सः । विकुणिते निमीलेते अक्षिणी दृशौ येन । 'उत्कलोलां दिशि दिशि जनाः कीर्तिपीयूषसिन्धुं यस्याद्यापि श्रवणपुटकैः कूणिकाक्षाः पिबन्ति' इति चन्धकथायाम् । किंभूतां गिरम् । उद्गतां प्र. कटीभृताम् । कस्मात् । तदाननेन्दो थीवदनचन्द्रात् । उत्प्रेक्ष्यते । सुधाया अमृतस्य भगिनी जामिमिव । भगिनी किंभृताम् । अमृतोमिमालिनः सुधासमुद्रात्प्रादुर्भूताम् । 'लक्ष्मीकास्तुभपारिजातसहजः सनुः सुधाम्भोनिधेर्देवेन प्रणयप्रसाराविधिना मूर्धा धृतः शंभुना । अद्याप्युज्हाति नैव देवविहितं क्षीणं क्षपावल्लभं केनान्येन विलक्यते विधिगतिः