________________
६६
काव्यमाला। त्रे । 'भगवान्स्वयमेवाभरणालंकारान्मुश्चति । तान्याभरणानि कुलमहतरिका हंसलक्षणेन पटशाटकेन प्रतीच्छति । तथा 'पञ्च मुढियं लोयं करेइ ।' शक्रोऽपि हंसलक्षणेन पटशाटकेन केशान्प्रतीक्ष्य क्षीरसमुद्रे वायति ।-इति कल्पवृत्तिः । निर्मिता तूली प्रस्तरणोपकरणविशेषः । लोके 'तुलाई' इति प्रसिद्धा । तत्संयुक्तस्य शयनस्य वा शय्याया उदरान्मध्यात्क्षणात्तत्कालमुदस्थादुत्थिता । किं कुर्वतः स्वहंसेत्यादि । दघतो.धारयतः । कम् । गभीरिमाणं मध्ये निम्नतां 'मज्झन्ने गम्भीरे' इति कल्पादिमसूत्रवचनात् । पुनः किंभूतात् । सपल्लवाः किसलयकलिताः स्मिता विकसिता ये प्रसूनव्रजाः 'कुसुमसमूहास्तै राजितं शोभितमन्तरं मध्यं यस्य । केव । करिणीव । यथा हस्तिनी उभयपक्षपरावतनादिना । कथंचिन्निम्नीभूतात् । 'शय्यां त्यजन्त्युभयपक्षविनीतनिद्राः' इति रघौ । उभयाभ्यां पक्षाभ्यां पार्श्वभ्यां परावर्तनेन लोठनेन विनीता अपाकृता निद्रा यैः-इति तद्वत्तिः। तथा समीपतरुनिष्पतत्पल्लवपुष्पोपचितात्सैकताबलोज्झिततटादुत्तिष्ठते ॥ . .
मरालबालेव विलासगामिनी क्षितौ क्षिपन्ती पदपद्मयामलम् । ततः समुद्दिश्य पति पतिव्रता महेभ्यपत्नी पदवीं व्यभूषयत् ॥ ७४ ॥
शय्याया उत्थानानन्तरं महेभ्यपत्नी नाथी पतिं स्वभर्तारमुद्दिश्य । पतिपार्श्वे गन्तुकामेत्यर्थः । पदवी मार्गे व्यभूषयदलंकृतवती । किंभूता ।पतिरेव स्वभव व्रतं सतीत्वेन यस्याः स्वपाणिग्रहीतारं विना स्वप्नेऽपि त्रिधापि नान्यं पुमांसं कामयते सा पतिव्रता । प्रथमं तु सतीत्वसूचनमुक्तम् । अत्र काव्ये तु प्रकटत्वेन सतीत्वं प्रतिपादितम् । किं कुर्वन्ती । क्षितौ पृथिव्यां पदपद्मयोर्यामलं युग्मं क्षिपन्ती स्थापयन्ती । पुनः किंभूता । विलासेन लीलया मन्थरं गच्छतीत्येवंशीला । केव । मरालबालेव । यथा हंसस्य पत्नी हंसी विलासगामिनी भवेत् ॥
क्षणादथोविलयोर्वसी मणीविभूषणध्वंसितरोदसीतमाः । असौ पुरस्ताप्रकटीबभूवुषी प्रियस्य मूर्तेव कुलाधिदेवता ॥ ७५ ॥ अथ स्वप्नदर्शनोत्थाननिर्गमनानन्तरमसौ नाथी क्षणात्स्तोककालादेव प्रियस्य कुंरासाधोः स्वभर्तुः पुरस्तादग्रे प्रकटीवभूवुषी व्यक्ता जाता समेत्याने तस्थौ । किंभूता । उ. वीवलयस्य भूमण्डलस्य उर्वसी नामाप्सराः । 'विशति विशति वेदीमुर्वसी सेयमुक्ः' इति नैषधे । पुनः किंभूता । मणीभूषणै रत्नाभरणैर्ध्वसितं निर्दलितं रोदस्यो-वाभूम्योस्तमो ध्वान्तं यया सा । उत्प्रेक्ष्यते । तस्येत्यस्य मूर्ता तनुमती कुलाधिदेवता गोत्राधिछात्री देवीव । साप्यप्सरा भूषणमाणिक्यकान्तिविध्वस्ततमाः स्यात् ॥
तया क्रमादिभ्यविभावरीवरो विमुद्रणाया गमितः स गोचरम् । वचोविलासैररुणांशुभिर्यथारविन्दवृन्दं दिवसाननश्रिया ॥ ७६ ॥ तया नाथीदेव्या क्रमादागमनानुक्रमेण वचोविलासैः स्ववचनचातुर्याविशयैः स कुरा