SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ २ सर्गः ] हीरसौभाम्यम् । कुतूहलेनेव महीविहारिणं महीधरं कैरवबन्धुधारिणः । किमेतयोर्भाग्यनभोमणेरहः शरद्विधोर्वा किमु पिण्डितं महः ॥ ७० ॥ ६५ अथ वा उत्प्रेक्ष्यते - कुतूहलेन कौतुकेन मयां पृथिव्यां विहरति खेलति इत्येवंशीलं कैरवबन्धुं चन्द्रं धरतीत्येवंशीलस्तस्य शंभोर्महीधरं शैलं कैलासमिव । अथवा किम् । उत्प्रेक्ष्यते । एतयोर्नाथीकुंराव्यवहारिणोर्भाग्यं पुण्यं तदेव नभोमणिः सूर्यस्तस्याहर्दि - नमिव । अहो भानोरुदयः । तथा एतस्मात्स्वप्नात्तयोर्भाग्याभ्युदयो भविष्यति । अथवा शरद्विधोर्मेघात्ययोदितचन्द्रस्य पिण्डितं पिण्डीभूतं महः कान्तिरिव ॥ आदितः पञ्चभिः कुलकम् || इति गजस्वप्नः ॥ व्यमोचि तं स्वप्नमवेक्ष्य संलये विलोचनाम्भोरुहमुद्रणानया । पयोरुहिण्येव पयोजवान्धवोदये शचीकान्तहरिन्महीधरे ॥ ७१ ॥ अनया नावीदेव्या संलये निद्रायाम् । 'निद्रा प्रमीला शयनं संवेश: स्वापसंलयौ' इति हैम्याम् । तं पूर्वोक्तं गजस्वप्नमवेक्ष्य दृष्ट्वा विलोचनाम्भोरुहयोर्नयनकमलयोर्मुद्रणा निमीलनं व्यमच मुक्तम् । निद्रा त्यक्तेत्यर्थः । कयेव । पयोरुहिण्येव । यथा शच्या इन्द्राण्या: कान्तः शक्रस्तस्य हरित् दिकू पूर्वा तस्या महीधर उदयशैलस्तत्र योजनान्यवस्य भास्करस्य अभ्युदयं विभाव्य पयोजिन्या पद्मिन्या नेत्रतुल्यपयोरुहयोर्मुद्रणा मुकुलनं विमोच्यते ॥ सुखं शयाना निशि निद्रयाङ्गना निभाव्य तं स्वप्नमवाप संमदम् । यथा परंब्रह्म समीररुन्ध(रोध)नैर्निबद्धपद्मासन योगिमण्डली ॥ ७२ ॥ अङ्गना नाथी संमदं हर्षमवाप लेभे । किं कृत्वा । निभालय दृष्ट्वा । कम् । तं पूर्वव्यावर्णित स्वरूपं हस्तिस्वनम् । किंभूता नाथी । निशि रात्रौ निद्रया सुखं सातेन शयाना स्वपन्ती । सुप्ता सतीत्यर्थः । केव । निबद्धेति । यथा निबद्धं रचितं पद्मासनमासनविशेषो यैस्तादृशानां योगिनां योगमार्गसाधकानां मण्डली श्रेणी समीराणां प्राणापानादीनां पवनानां रुन्ध(रोध)नै रोधैः परब्रह्म परमात्मानमालोक्य परमं संमदं प्राप्नोति । योगिनो हि पद्मासनेनोपविश्य वातरुन्ध (रोध)नपूर्वकमेकताना योगध्यानं कुर्वन्तः परमात्मानमात्मनि हृदयकमलंकर्णिकायां वीक्ष्य । 'त्वां योगिनो जिन सदा परमात्मरूपमन्वेषयन्ति हृदयाम्बुजकोशदेशे' इति कल्याणमन्दिरस्तवेऽपि । 'परमानन्दभाजः सन्तो ध्यानाद्विरमन्ते' इत्येष व्यतिकरः कुमारसंभवे ॥ गभीरिमाणं दधतः सपल्लवस्मितप्रसूनव्रजराजितान्तरात् । स्वहंसतूलीशयनोद दसौ क्षणादुदुस्थात्करिणीव सैकतात् ॥ ७३ ॥ असौ नाथी स्वस्य हंसतूलीनाम्नः शयनस्य । यद्वा आत्मनो हंसानां पक्षरोमभिर्भूता तूली । अथवा हंसनामलक्षणकेन पट्टशाटकेन । 'स्वयमेवाभरणालंकारं मुयइ' इति कल्पसू ९
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy