SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ६४ काव्यमाला | कदाचिदाधानकाले तदङ्गना कुंरापत्नी नाथी निशो रात्रेरन्तिमे पश्चिमे चतुर्थे प्रहरे यामे जम्भनाम्नो दैत्यस्य निशुम्भो हिंसनं यस्य यस्माद्वा । स इन्द्रस्तस्य कुम्भिन मैरावणं न्यभालयत्पश्यति स्म । किंभूतम् । स्वप्न एव सरस्तटाकस्तमवगाहते भजते इत्येवंशीलः । ऐरावणोऽपि तदङ्गना इत्यतोऽकारपृथक्करणेन अस्वनानां सरो नन्दीसरोनामानं पद्माकरमवगाहते मध्ये प्रविश्य क्रीडया इतस्ततः स्वेच्छया गच्छतीत्येवंशीलः स्यात् । किंभूता तदङ्गना । निद्रया निरर्तिस्वापेन । अतएव सुखं यथा स्यात्तथा । सातेनेत्यर्थः । प्रसुप्ता शय्यायां शयाना । केव | अम्बुरुहिणीव । यथा पद्मिनी रात्री स्वपिति ॥ अथ चतुर्भिर्गजं विशिनष्टि— श्रियेव निर्जित्य समग्रदिग्गजान्धृतेर्जयाङ्केश्वमरैर्विराजितम् । प्रभुं धराणामिव धात्वधित्यकां स्वमूर्ध्नि सिन्दूररुचिं च विभ्रतम् ॥६७॥ किंलक्षणं गजम् । चर्मरे रोमगुच्छेविराजितं शोभितम् । इवोत्प्रेक्ष्यते - श्रिया शौण्डीरिमतुङ्गिमश्वेतिमलक्षणागणितगुणगणादिमस्वलक्ष्म्या समग्रान् सर्वान् । पुण्डरीक वामन कुमुद-अञ्जन-पुष्पदन्त सार्वभौम सुप्रतीकाख्यान् सप्त दिग्गजान्निर्जित्य जित्वा जयाङ्कस्तद्विजयसूचकैर्धृतैरिव । पुनः किं कुर्वन्तम् । विभ्रतं धारयन्तम् । काम् । सि दूरस्य शृङ्गारभूषणस्य रुचि कान्तिम् । रक्तिमानमित्यर्थः । कस्मिन् । स्वमूर्ध्नि निजमस्तके | कमिव । धराणां प्रभुमिव । यथा गिरिराजो हिमाद्विर्धातोर्गैरिकस्य अधिन्यका मूर्ध्व - भूमीं धत्ते ॥ अखण्डचण्डेतरधाममण्डलान्तरालतो निर्गतमङ्कवर्त्मना । महीतले स्त्यानतया कथंचनावतिष्ठमानं किमु वा सुधारसम् ॥ ६८ ॥ वा अथवा । गजं किसूत्प्रेक्ष्यते - महीतले भूमण्डले स्त्यानतया स्तिमितत्वेन कथंचन केनापि प्रकारेण अवतिष्टमानं स्थितिं कुर्वाणं सुधारसमिव । किमुत्प्रेक्षायाम् । किंभूतं सुधारसम् । अखण्डस्य संपूर्णस्य चण्डात्तीक्ष्णादितरं शिशिरं धाम तेजो यस्यैतावता चन्द्रस्य मण्डलं बिम्बं तस्यान्तरालतो मध्यान्निर्गतं निःसृतम् । केन । अङ्कवर्त्मना लाञ्चनमार्गेण ॥ सृजन्तमुच्चैः स्वकरं मदोदयात्कुलाद्विसान्द्रप्रतिनादमन्दुरैः । स्वगर्जितैः स्पधिंतया पयोमुचां चमूं विगायन्तमिवातिकोपतः ॥ ६९ ॥ गजं किं कुर्वन्तम् । मदस्योन्मत्तताया उदयादाविर्भावात्स्वकरं निजगुण्डादण्डमुनै सृजन्तं कुर्वन्तम् । उत्प्रेक्ष्यते - स्वगर्जितैरात्मगजरावैः सार्धं स्पर्धितया हंसर्पिवेन अतिकोपतोऽधिकक्रोधात् पयोमुचां मेघानां चमूमनीकम् । वृन्दमित्यर्थः । विगायन्तमवगणयन्तमिव । ‘नवाम्वुदानीकमुहूर्त लाञ्छने' इति रघुवंशे । अनीकवच्चनूः । किंभूतैगर्जितः । कुलादिषु मन्दरप्रमुख कुल शैलेषु सान्द्रेण बहुलेन प्रतिनादेन प्रतिशब्देन मेदुरैः पुष्टैः ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy