________________
२ सर्गः]
.
हीरसौभाग्यम् ।
रसस्य अमृतनिस्यन्दस्य उपमा साम्यं यत्रैवंविधमगीयत गीतम् । किं कृत्वा । कणनं निजध्वनिमनुवदतीति अनुकरोतीत्येवंशीलां वीणां प्रणीय सजीकृत्य । किंवत् । किंनरेन्द्रवत् । यथा किंपुरुषेश्वरेण स्वरसेन स्त्रिया सह गीयते ॥
कदापि मन्दार इव स्मितद्रुमे विलासदोलामवलम्ब्य लीलया । न्यखेलि तेनोपवने मृगीदृशा समं स्वदेव्या गुसदेव नन्दने ॥ ६३ ॥ कस्मिन्नवसरे तेन व्यवहारिणा मृगीदृशः स्वदयितया सह उपवने पुरस्य वा स्वय. हस्य समीपारामे लीलया शृङ्गारभावजक्रियया न्यखेलि क्रीडितम् । 'लीला केलिविलासश्च शृङ्गारभावजा क्रिया' इत्यनेकार्थः । अत्र विलासः स्थानादीनां वैशद्यमित्यवर्णा । किं कृत्वा । मन्दारे कल्पद्रुमे इव । कस्मिन्नपि स्मितद्रुमे विकसिततरौ । तरुशाखायामित्यर्थः । विलासार्थ दोलां क्रीडाकृते प्रेड्ढोलनमवलम्व्याश्रित्य । केनेव । युसदेव । यथा देवेन स्वदेव्या समं मन्दारे मन्दारनान्नि कल्पवृक्षे दोलां बद्धा नन्दनवने क्रीज्यते ॥ कदाचिदिभ्यः कलधौतभूधरे चिखेल सार्धं परमाणुमध्यया । मृगाङ्कचूडामणिरद्रिचक्रिणस्तनूजयेवाद्भुतभूतिभासुरः ॥ ६४ ॥ इम्यो व्यवहारी कदाचित्कस्मिन्नपि वासरे कलधौतभूधरे क्रीडार्थनिर्मितरजतपर्वते परमाणुमध्यया स्वकृशोदर्या नाधीदेव्या समम् । 'अध्यापयामः परमाणुमध्याः' इति नै. घधे । चिखेल खेलति स्म । श्वेत्याद्रपतुल्योरूपमयो वा । तथा चम्पूकथायाम्-'राजते राजतेनायं सानुना सानुनायकः' इति । यथा शृङ्गं तथा सर्वोऽप्यद्रिः । क इव । मृगाङ्कचूडामणिरिव · । 'मृगाङ्कचूडामणिवर्जनार्जितम्' इति नैषधे । यथा-ईश्वरोऽदिच. क्रिणो हिमाद्रेस्तनूजा पुत्र्या पार्वत्या समं रूयाचले कैलाशे खेलति । इभ्यः किंभूतः । अद्भुतया विद्वच्चेतश्चमत्कारकारिण्या भत्या संपदा भासुरो नागरिकेषु दीप्यमानः । शिवस्तु भस्मना शुभ्रः । 'भुतिस्तु भस्मनि । मांसपाकविशेषे च संपदुत्पादयोरपि' इत्यनेकार्थः ॥
विनोदमेवं सृजतोरहर्निशं तयोः स्मराज्ञैकवशंवदात्मनोः । दिनानि दोगुन्दकदेवयोरिव प्रमोदभाजोरतिचक्रमुः क्रमात् ॥ १५ ॥ तयोर्नाथीकुंराव्यवहारिणोः क्रमाद्विविधविलासकरणपरिपाट्या दिनानि वासरा अतिचक्रमुरतिक्रामंन्ति-स्म । तयोः किंभूतयोः । प्रमोदभाजोरानन्दमेदुरयोः । पुनः किंभतयोः । स्मरस्य मदनस्याज्ञा आदेशः तस्या एकोऽद्वितीयो वशंवद आयत्त आत्मा चित्तं च वयोस्तौ । पुनः किं कुर्वतोः । एवं पूर्वोक्तप्रकारेण अहनिशं निरन्तरं विनोदं क्रीडां सृजतोः । कयोरिव । दोगुन्दकदेवयोरिव । यथा दोगुन्दकदेवयोविविधक्रीडाकुर्वतो - सरा अतिकामन्ति ॥ इति दम्पत्योर्वनादिक्रीडाकरणादिः॥
कदाचिदम्भोरुहिणीव निद्रया सुखं प्रसुप्ता प्रहरेऽन्तिमे निशः। तदङ्गनास्वप्नसरोवगाहिनं न्यभालयज्जम्भनिशुम्भकुम्भिनम् ॥ ६६ ॥