SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ २ सर्गः ] हीरसौभाग्यम् । जयन्तवज्जम्भनिशुम्भभामिनी पतिं चमूनामिव सर्वमङ्गला । वशेव शौरेः सुमनःशरासनं क्रमाच्च पुत्रं प्रसविष्यसि प्रिये ॥ ८३ ॥ हे प्रिये, गर्भत्वेन प्राप्तं च पुनः क्रमात्पूर्णसमयपरिपाट्या पुत्रं नन्दनं प्रसविष्यसि जनयिष्यसि । का किंवत् । जम्भनिशुम्भस्य इन्द्रस्य भामिनी प्रिया इन्द्राणी जयन्तवत् जयदत्तमिव । पुनः का कमिव । सर्वमङ्गला पार्वती चमूपति स्वामिकार्तिकामेव । पुनः का कमित्र । शौरेर्विष्णोर्वशा लक्ष्मीः सुमनाः सुमनसो वा पुष्पं शरासनं धनुर्यस्य । सुमन:शब्दस्य वा बहुत्वमिति लिङ्गानुशासने । 'पुष्पाण्यस्येषुचापास्त्राणि' इति हैम्याम् । कन्दर्पमिव ॥ ६९ इति प्रणीय श्रुतिगोचरं वचः प्रियस्य दधे पुलकोद्गमस्तया । तद्वितामुर्वरयेव जीवनं निपीय सस्याङ्कुरराजिराजिता ॥ ८४ ॥ तया नाथीदेव्या पुलकोद्रमो रोमाञ्चाविर्भावो दधे धृतः । किं कृत्वा । इति पूर्वोक्तप्रकारेण प्रियस्य स्वभर्तुर्वचः वचनं श्रुतिगोचरं श्रवणगतं प्रणीय कृत्वा । श्रुत्वेत्यर्थः । कयेव । उर्वरयेव । यथा सर्वसस्यया भुवा तद्वितां मेघानां जीवनं जलं निपीय पीत्वा सस्थानां सर्वधान्याङ्कुराणां प्ररोहाणां राजिभी राजते इत्येवंशीला तस्या भावो राजिता सस्याङ्कुरराजिराजिता । सर्वधान्यप्ररोहश्रेणिशोभनशीलत्वं ध्रियते । 'उर्वरा सर्वसस्या भू:' इति म्याम् ॥ धवः सुधाधामसगोत्रवक्रयेत्यवादि बद्धाञ्जलिपाणिपद्मया । वरे सुरेन्दोरिव कान्त तावके वचः प्रपञ्चेऽव्यभिचारितास्तु मे ॥ ८९ ॥ सुधाधाम्नोऽमृतकिरणस्य चन्द्रस्य सगोत्रं स्वजनो बान्धवः । तुल्यमिति यावत् । व मुखं यस्यास्तया चन्द्रवदनया धवः स्वभर्ता इत्यमुना प्रकारेण अवादि भाषितः । त किंभूतया । बद्धो-रचितोऽञ्जलिर्योजनं याभ्यां तादृशौ पाणिपद्म करकमलौ यस्याः । कमल(?)शब्दः पुंक्लीबलिङ्गयोः । इति किम् । हे कान्त, तावके त्वदीये वचः प्रपञ्चे वचनविस्तारे वाग्वैभवे वा मे मम व्यभिचरति मृषा भवतीत्येवंशीलं व्यभिचारि न व्यभिचारि अव्यभिचारि तस्य भावः अव्यभिचारिता सत्यता अस्तु भवतान् । कस्मिन्निव । वरे इव । यथा सुरेन्दोरिन्द्रस्य प्रधानदेवस्य वा बरे अभीष्टवाक्प्रदाने अव्यभिचारिता भवेत् ॥ मिथः प्रथाभिर्वचलां वचस्विनौ कियच्चिरं तस्थतुरत्र दम्पती । वसन्त कुलत्सहकारकाने पिकाविवोदीरितपञ्चमस्वनौ ॥ ८६ ॥ अत्र इभ्यशय्यागृहे वचस्विनौ विशिष्टवाग्विलासशालिनौ दम्पती स्त्रीभर्तारौ मिथः परस्परं वचसां निजनिजवचनानां प्रथाभिविस्तारैः । वार्ताविनोदै रित्यर्थः । कियच्चिरं कियन्तीं वेलां यावत्तस्थतुः स्थितौ । काविव । पिंकाविव । यथा वसन्तेन मधुमासेन फुलतां विकसताम् । मञ्जरीपिञ्जरीभवतामित्यर्थः । सहकाराणाम् आम्राणां कानने उदीरितः प्रकटीकृतः
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy