SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ६० काव्यमाला | यदीयपादौ सरलाङ्गुली द्युता करम्बितौ झांकृतिकारिनूपुरौ । श्रियानुयातः कमले दलद्दले मरन्दनिः स्यन्दिनदत्सितच्छदे ॥ ५२ ॥ यदीयौ पादौ नाथीसंबन्धिनौ चरणौ श्रिया शोभया कमले पद्म अनुयातः अनुकु रुतः। सदृशौ भवत इत्यर्थः। किंभूतौ पादौ । सरला अकुटिला अङ्गुलयः पदशाखा ययोः । पुनः किंभूतौ । द्युता कान्त्या करम्बितौ व्याप्तौ । पुनः किंभूतौ । झांकृतिं रणझणिति • शब्दं कुरुत इत्येवंशीलो नूपुरौ मञ्जीरौ ययोः । कमले किंभूते । दलन्ति विजृम्भमाणानि दलानि पत्राणि ययोः । पुनः किंभूते । मरन्दं मधु निःस्यन्देते क्षरत इत्येवंशीले । तथा - नदन्तः शब्दायमानाः सितच्छदा हंसा ययोस्तौ पश्चात्कर्मधारयः ॥ प्रभाप्रथातैलकरम्बितान्तरे यदङ्क्षिपात्रेऽङ्गुलिवर्तिवर्तिनः । नखाः प्रदीपा इव विस्फुरत्विषोऽपुषन्विभूषामभिभूततामसाः ॥ १३ ॥ नखा अर्थान्नार्थीकामाङ्कुशाः प्रदीपा इव विभूषां शोभामपुषन् पुष्टामकार्षुः । क । यदङ्घ्रिपात्रे यस्याश्चरणनाम्नि अमत्रे भाजने । किंभूते । प्रभानां कान्तीनां प्रथा विस्तार एव तैलं स्नेहस्तेन करम्बितमर्थात्संपूर्णमन्तरं मध्यं यस्य तस्मिन् । नखाः किंभूताः । भङ्गुलय एव वर्तयो दशास्तासु वर्तन्ते तिष्ठन्तीत्येवंशीलाः पुनः किंभूताः । विस्फुरन्ती विद्योतमाना त्विट् ज्योतिर्येषां ते । पुनः किंभूताः । अभिभूता ध्वस्तास्तामसास्तमसा ध्वान्तानां समूहा यैस्ते । 'तामसास्तिग्मरोचिषः' इति वीतरागस्तवे ॥ व्यलीलसत्पाटलिमा पदाम्बुजद्वयस्य यस्याः सरसीजचक्षुषः । स्वमार्दवेनाभिमवं विधित्सतः प्रवालपुत्रैरुपदीकृतः किमु ॥ ९४ ॥ सरसीजं कमलं तद्वच्चक्षुर्लोचनं यस्यास्तादृश्या यस्याः पदाम्बुजयोचरणकमलयोर्द्वयस्य युगलस्य पाटलिमा रक्तता व्यलीलसद्भासते स्म । किमुत्प्रेक्ष्यते - स्वमार्दवेन निजसुकुमारतया अभिभवं पराभूति विधित्सतो विधातुमिच्छतः चरणारविन्दद्वन्द्वस्य प्रवा लपुत्रैः पल्लवपटलैः उपदीकृतः किमु । ढौकित इव ॥ असौ जयन्ती जलजं खपाणिना रदैश्व तारश्रियमात्मना रंमाम् । मृगाङ्कमास्येन रुचा च चम्पकं स्मरस्य हेतिः किमु विश्वजित्वरी ५९ असौ नाथीदेवी । किमुत्प्रेक्ष्यते - विश्वजित्वरी जगज्जयनशीला स्मरस्य कामस्य हेतिः किमु शस्त्रमिव । जगजिष्णुतां दर्शयति - असौ किं कुर्वती । जयन्ती पराभवन्ती । किम् । जलजं कमलम् । केन । स्वपाणिना निजहस्तेन । पुनः काम् । तारश्रियं तारकाणां निर्मलमौक्तिकानां वा । 'तारो निर्मलमौक्तिके' इत्यनेकार्थवचनात् । यद्वा रजतानां श्रियं शोभाम् । नक्षत्रवाची तारशब्दोऽकारान्तोऽप्यस्ति । 'प्रथममुपहृत्यार्थे तारैरखण्डिततण्डुलैः' इति नैषधे । कैः । रदैर्दन्तैः । पुनः काम् । रमां लक्ष्मीम् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy