________________
२ सर्गः] . होरसौभाग्यन् ।
५९ स्तस्मात् । पुनः किं कृत्वा । निरस्य अपास्य । काम् । असारताम् । कुतः । कदली. प्रकाण्डतः रम्भाद्रुमस्य मूलशाखावधिप्रदेशस्यान्तरालभागात् ॥
यदूरुजङ्घायुगयोर्विवृत्सतोः परस्पराद्वैतविरोधिताजुषोः । द्विराजताया गयतस्तदन्तरानिवासिजानू किमलक्ष्यतां गतौ ॥ ४९.॥ वस्या उरुजवायुगयोरन्तराले मध्ये निवासिनौ नितरां वसनशीलौ जान उरुपर्वणी अलक्ष्यतामदृश्यभावं गतौ प्राप्ती । किं कर्तुमिच्छतोः। विवृत्सतोः वधितुमिच्छतोः । किंभूतयोर्यदरुयुगयो:-परस्परमन्योन्यं या अद्वैतता असाधारणत्वं तवा विरोधितावैरिभावः । उरू जद्द आक्रम्य तदुपरिस्थते । इदमेव परमविद्वेषितामूलम् । तां जुषेते सेवेते । किमुत्प्रेक्ष्यते-द्वौ राजानौ यत्र तद्विराजं द्विराजस्य भावो द्विराजता द्वैराज्यस्य भयतो भयात् किमदृश्यतां याताविव ॥ रतीशगेहेऽजनि यत्र जङ्घयोर्गृहाश्रयस्थूणिकयोरिव द्वयम् । यदीयगुल्फावपि गुप्ततां गताविवाभिशोचिः सलिले निमज्जनात् ॥५०॥ यत्र देहे जक्योईयमजनि । उत्प्रेक्ष्यते-रतीशस्य स्मरस्य गेहे मन्दिरे गृहाश्रययोः सौधाधारभूतयोः स्थूणिकयोः स्तम्भयोयमिव । अपि पुनर्यदीवगुल्फो नाथीचरणग्रन्थी गुप्ततां प्रच्छन्नतां प्राप्तौ । स्त्रीणां गुल्फावदृश्यावेव वर्म्यते । यथा नैषधे-'अरुन्धती कामपुरन्ध्रिलक्ष्मीजम्भद्विपदारनवाम्पिकानाम् । चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥' एतदृत्तिः–'यसिष्टपली च, रतिश्च, लक्ष्मीश्च, जम्भद्विषद्दाराः शची मा च, नवाम्बिकानवदुर्गास्ताश्च, एतासामियं भैमी चतुर्दशी चतुर्दशसंख्यापूरिकापि चतुर्दशी तिथिश्च तत्तुल्येत्यर्थः । तदिहास्यां भैम्यामुचितैव यतो हेतोरदृश्यसिद्धिरदृश्यतयावस्थानम् अन्तर्धानविधिविद्या गुल्फद्वयेनाप्ता । अरुन्धत्यादिसंनिधाने अदृश्यसिद्धियुक्तैव । चतुर्दशीतिथौ चादृश्यसिद्धिर्जायते इत्यागमशास्त्रसंप्रदायः । गुल्फयोश्चानभिव्यक्तत्वं सुलक्षणम्' इति । तत्रोत्प्रेक्ष्यते-अङ्योश्चरणयोः शोचिः कान्तिरेव सलिलं पा. नीयं तस्मिन्निमज्जनाद्रगडनादिव । जले निमन न दृश्यते इति प्रसिद्धिः ॥ पदारविन्दोन्नतताभिरात्मनः पराजितैः कुञ्जरराजयानया। अगोपि मन्दाक्षविलक्षितात्मभिर्वने वसद्भिः कमठैरिवाननम् ॥ ११ ॥ कमठः कच्छपरान स्वमुखमगोपि गुप्तीकृतम् । क्रोटिक्षेपणादिति शेषः । किं कुर्वद्भिः । वने जले विपिने वा वसद्भिस्तिष्टद्भिः। 'वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने। समूहे पर्वतेऽपि स्यात् (प्रस्रवणे निर्झरे) इत्यनेकार्थः । किमुत्प्रेक्ष्यते-कुञ्जरराजयानया गजेन्द्रगमनया यया आत्मन: स्वस्य पदारविन्दयोश्चरणकमलयोरुनतताभिः पराजितैः सद्भिः मन्दाक्षण लजया विलक्षितो विमनीभूत आत्मा चित्तं यस्य तादृशैः किमास्यमगोपि । 'आत्मा चित्ते धृती यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽके हुताशनसमीरयोः ॥ स्वभावे, इत्यनेकार्थः ॥