SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ५८ काव्यमाला। किं कृत्वा । निरीक्ष्य दृष्ट्वा । अर्थात् काम् । तां लक्ष्मीम् । किंभूताम् । निजस्यात्मनो भर्तुः कन्दर्पस्य मातरं जननी स्वश्वम् । पुनः किंभताम् । स्थितां वसन्तीम् । किं कृत्वा । विजृम्भि पङ्कजं स्मेरारविन्दं सदा नित्यमध्यास्य आश्रित्य ॥ अगण्यलावण्यतरङ्गचङ्गिमानुषङ्गिशोचिः सुरसिन्धुसंनिधौ । निखेलितुं कि पुलिनं स्मराभ्रमूप्रियस्य यस्या जघनं विधिय॑धात् ॥४६॥ विधिब्रह्मा यस्या जघनं स्त्रीकट्या अग्रेतनप्रदेशः । 'पेड' इति जने प्रसिद्धम् । तद्वयधात् चकार । किमुत्प्रेक्ष्यते-स्मरः काम एवाभ्रमूप्रिय ऐरावणस्तस्य । अभ्रमशब्दो दी|कारान्तः । तस्य शास्त्रोक्तानि प्रागुक्तानि सन्ति । खेलितुं क्रीडितुं पुलिनं जलोज्झितं तटमिव । कुत्र । अगण्यं प्रमातुमशक्यमेतावत्तया सम्यढिश्चेतुमशक्यं वा यंलावण्यं य. द्यपि 'सद्मनसनिरीक्षणसज्जल्पनमिति बदन्ति लावण्यम् । स्पृहणीयो रतिसुभगः स्पर्शगुणो भवति सौभाग्यम् ॥' एवं प्रतिपादितमस्ति, तथाप्यत्र तु कोऽप्यद्वैतरूपातिशय एव लावण्यमुच्यते न प्राक्तनः । वपुः सुभगता । तस्य तरङ्गाणां लहरीणाम् । 'रूपचतुरपणविभवघणयौवनलहरई जाइ । एणइ अवसरि रंडापणुं पगिपगि षडकइ माइ॥' इति दोधकेऽप्युक्तम् । चङ्गिनश्चारुत्वस्यानुषङ्गोऽस्त्यस्य चगिनस्तु प्रागुक्तम् । अत्रेमन्प्रत्ययः । तादृक् । शोचिरेव कान्तिरूपा सुरसिन्धुर्गङ्गा तस्याः संनिधौ पार्श्वे ॥ अजय्यवीर्य मृडमन्यहेतिभिर्विजित्वरीभिर्जगतोऽपि जानता। स्मरेण धात्रा किमु कार्यते स्म यन्नितम्बचक्रं युवयोगिधैर्यजित् ॥४७॥ स्मरेण कामेन क; धात्रा विश्वसृष्टिकृता पार्श्वे । किमुत्प्रेक्ष्यते—यस्या नितम्बः कटी. पश्चाद्भाग आरोहः एव चक्रं कार्यते स्म । कारितम् । स्मरेण किं कुर्वता । जानता अ. वधारयता । किं कर्मतापन्नम् । मृडमीश्वरम् । किंलक्षणम् । अजय्यं जेतुमशक्यं वीर्य विक्रमो यस्य तम् । काभिः । अन्याभिरपराभिर्हेतिभिर्धनुर्वाणकृपाणकुन्तशक्तिप्रमुख. प्रहरणैः । किंभूताभिः । जगतः समस्तस्य विश्वजनस्य विजित्वरीभिर्जयनशीलाभिः । तहि चक्रेणापि किं भावि । अत एव किं चक्रं युवानो यावत्रिजगत्तरुणा योगिनः समाधिभाजः तेषां धैर्य सत्त्वमतिशयवद्वीर्यमवष्टम्भं जयतीति । शंभुरपि योगी । अतस्तद्धैर्यवि. ध्वंसकारकं चक्रं कारितमिति ॥ करीन्द्रहस्तात्कदलीप्रकाण्डतो निरस्य कार्कश्यमसारतां पुनः । इमौ किमादाय परस्परोपमं यदूरुयुग्मं विधिना विनिर्ममे ॥ ४८ ॥ विधिना विधात्रा यस्या ऊरुयुग्मं विनिर्ममे कृतम् । किंमतम् । परस्परमन्योन्यमेवोपमा सादृश्यं यस्य तत् । किमुत्प्रेक्ष्यते-इमौ करीन्द्रहस्तकदलीप्रकाण्डौ आदाय गृही. त्वा किमु चक्रे । किं कृत्वा । निरस्य अपाकृत्य कर्षयित्वा । किम् । कार्कश्यं कठिनताम् । कस्मात् । करीन्द्रः प्रधानहस्ती भद्रजातीयगन्धसिन्धुरस्तस्य हस्तः शुण्डादण्ड
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy