________________
२ सर्गः ]
हीरसौभाग्यम् ।
६ १
केन । आत्मना स्वरूपेण शरीरेण वा आत्मशब्देन च वपुः । प्रागनेकार्थोक्तेन दर्शितमस्तीति । पुनः कम् । मृगाङ्कं चन्द्रम् । केन | आस्येन वदनेन । अपि पुनः किम् । चम्पकं हेमपुष्पकम् | चम्पककुसुममित्यर्थः । जातावेकवचनम् । कया । रुचा कान्त्या ॥ इति नाथीसङ्गवर्णनम् ॥
अथो मिथः प्रीतिपरीतदम्पती इमौ कलाकेलिविलासशीलिनौ ।
विलेसतुः केलिसरः सरिद्वनीगिरीन्द्रभूमीषु रतिस्मराविव ॥ ९६ ॥ अथ कुंरानाथीदेव्योर्गुणरूपवर्णनानन्तरं तयोविविधकीडावर्णनारम्भः । मिथः परस्परं प्रीत्या स्नेहेन प्रमोदेन वा परीतौ व्याप्तौ दम्पती स्त्रीभतीरौ इमौ नाथीकुंराख्यमहेभ्यौ अथवा इमौ पूर्व व्यावर्णितस्वरूपौ दम्पती नाथीकुंराव्यवहारिणौ केलये क्रीडा । ये सरांसि पद्माकराः सरितो नद्यः वन्य उद्यानानि गिरीन्द्राः सर्वक्रीडास्पदोपेताः पर्वताः तेषां भूमीषु स्थानकेषु विलेसतुः विविधक्रीडां चक्रतुः । इमौ किंभूतौ । कलाकेले: कामस्य विलासं लीलां शीलतो भजत इत्येवंशीलौ । इवोत्प्रेक्ष्यते— इमौ रतिस्मरौ केलतीकामाविव ॥
काकतुण्डैणमदद्रवाङ्कितोरसोः परिक्षालनतः कदापि तौ ।
सुतामिवार्कस्य विहारवाहिनीं विनिर्मिमाते जलकेलिलालसौ ॥ ५७ ॥ कदापि कस्मिन्नपि प्रस्तावे दम्पती नाथीकुंराख्यौ सह काकतुण्डेन कृष्णा गुरुणा वर्तते तादृशस्यैणमदस्य कस्तूरिकाया द्रवः पङ्कस्तेनाङ्कितयोर्व्याप्तयोरुरसोर्वक्षःस्थलयोः परिक्षालनतो घावनतः विहारवाहिनीं विलांसनदीम् । 'विहारस्तु जिनालये । लीलायां भ्रमरे स्कन्धे' इत्यनेकार्थ: । 'निद्रां विहारार्धपथे गतानाम्' इति रघौ । अर्कस्य सुतामिव यमुनामिव कस्तूरीद्रवैः श्यामलीकृतजलाम् अंत एव यमुनोपमां निर्ममाते कुर्वते । किंभूतौ । जलकेलौ संलिलक्रीडायां लालसौ लोलौ । 'लालसा लोलयाच्ञयोः । तृष्णातिरेके औत्सुक्ये' इत्यनेकार्थः ॥
कुमुत्स्मिता षट्पदपङ्किकुन्तला स्मितोत्पलाक्षी कजकुडनलस्तनी । प्रियेव पाथः प्लवने सहंसिका तरङ्गवाहुः सरिदालिलिङ्ग तम् ॥ १८ ॥ सरित् क्रीडानदी पाथः प्लवने जलकेलिसमये स्नानविधाने तं महेभ्यं कुंरासाधुमा लिलिङ्ग । केव । प्रियेव । यथा पाणिगृहीती पत्नी स्वपतिमाश्लिष्यति । किंभूता नदी प्रिया च । कुमुत्कैरवम् । जातावेकवचनम् । तदेव तद्वद्वा स्मितमीषद्धसितं यस्याः सा । भर्त्रा लेष
समये स्त्रियाः किंचिस्मितं जायते । पुनः किंभूता । षट्पदानां भ्रमराणां पतयः श्रेणयस्ता एव तद्वच्च श्यामाः कुन्तला केशा यस्याः । पुनः किंभूता । स्मितं विकसितं यदुत्पलं तदेव तद्वद्वा अक्षिणी चक्षुषी यस्याः । 'किमु कुवलयनेत्राः सन्ति नो नाकनार्यस्त्रिदशपतिरहल्यां तापसीं यत्सिदेव' इति चम्पूकथायाम् । पुनः किंभूता । कजकुड्मलौ कमलमुकुलौ तावेव तद्वद्वा स्तनों कुचौ यस्याः । पुनः किंभूता । हंस एक हंसकः । 'हंसको