SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। वमुत्प्रेक्ष्यते-अप्सरसोऽवतीर्य यां कुण्डिनपुरीमध्यासत । कः । तत्सखीजन:-इति तद्वत्तिः । स्मरेण किं कुर्वता । इच्छता वाञ्छता । किं कर्तुम् । पाशयितुं पाशे पतितान् पाशेन बद्धान् वा कर्तुम् । कान् । जगत्रयीयुक्व्रजान् त्रिभुवनतरुणगणान् । किंवत् । रङ्कवत् । यथा वागुरिकेण जालिकेन रङ्कन् जातिविशेषमृगान् । 'मृगभेदा रुरुन्यङ्करङ्कगोकर्णशम्बराः' इति हैम्याम् । पाशयितुं काङ्गता पाशो ध्रियते । किंभूता द्विपाशी । यादःपतेवरुणस्य पाशस्य जित्वरी जयनशीला ॥ वियोगवत्यौषधियोषया यदाननीभवत्कान्तसितद्युतिं प्रति । स्थितस्तदङ्के प्रहितस्तनूजवत्प्रवाल आह्वातुमिवाधरोपधेः ॥ २५ ॥ . वियोगो विरहो वीनां भृङ्गप्रमुखखगानां योगः संबन्धो यस्यास्तादृश्या, औषधिरेव योषा स्त्री तया । यदाननीभवन्तं नाथीवऋसंपवमानं कान्तं स्वभर्तारं सितद्युतिं चन्द्रं प्रति आह्वातुमाकारयितुं प्रहितः प्रेषितस्तनूजवत् पुत्रवत् । प्रवालः प्रकृष्टो दक्षः । श्लेषे बवयोरैक्यात् बालः शिशुः, पल्लवश्च । उत्प्रेक्ष्यते-अधरोपधेरोष्ठकपटात् तदन्तिके चन्द्रोत्सङ्गे स्थित इव । बालः सुतः पितुरुत्सङ्गे तिष्ठतीति स्थितिरेव ॥ निपातुकेन द्विजकान्तिमिश्रितस्मितेन यस्या रदनच्छदे बभे । जलेन वातूलतरङ्गितात्मना सुधापयोधेरिव हेमकन्दले ॥ २६ ॥ यस्या रदनच्छदेऽधरे निपातुकेन निपतनशीलेन द्विजानां दन्तानां कान्त्या मिश्रितेन खचितेन स्मितेनेषद्धसितेन । 'ताम्रोष्ठपर्यस्तरुचःस्मितस्य' इति रघौ ।बभे शुशुभे। केनेव । जलेनेव । यथा सुधापयोधेः क्षीरार्णवस्य पयसा हेमकंन्दले. विद्रुमे दीप्यते । किंभूतेन । वातूलेन वातव्रजेन तरङ्गितः कल्लोलयुक्तीभूत आत्मा स्वरूप यस्य ॥ स्वकान्तवक्रामृतकान्तिदर्शनाद्भदन्तरुद्वेलितरागसागरात् । निरित्वरी विद्रुमकन्दली च यद्विलासवत्या दशनच्छदो बभौ ॥२७॥ यस्याः । 'विलासो हावे लीलायाम्' इत्यनेकार्थः । तत्र 'हावः शृङ्गारभावाप्तौ रम्योक्तस्मितवीक्षितम् । प्रियस्यानुकृतिीला श्लिष्टावाग्वेषचेष्टितैः ॥' इति तदवचूरिः । स विद्यते यस्याः सा तस्या विलासवत्या दशनच्छदोऽधरो बभौ भाति स्म । उत्प्रेक्ष्यते-खस्यात्मनः कान्तस्य भर्तुः कुंरासाधोर्वक्रामृतकान्तेर्मुखेन्दोर्दर्शनादवलोकनात् हृदन्तर्मनोमध्ये उद्वेलिताद्वेलामतिक्रान्त उद्वेल उद्वेलवं संजातमस्मिन्निति भावप्रधानो निर्देशः । तस्मादुत्कण्ठितात् कण्ठादूर्ध्वमागतात् रागसारात् निरित्वरी निर्गमनशीला विद्रुमकन्दली प्रवालाङ्कुर इव । कन्दलशब्दस्त्रिलिङ्गः ।। द्विनाधिपत्यं मुख एव मुख्यतो मृगीदृशोऽस्या न कुमुद्वतीपतौ । द्विजैरमीभिर्यदसौ दिवानिशं निषेवणाया विषयं स नीयते ॥ २८ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy