SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ . २ सर्गः] . हीरसौभाग्यम् । स्त्रिया जातुचित्कदाचिदपि न भूयते स्म न जाता। त्रैलोक्येऽप्येवंविधा मया कापि युवती निर्मिता नास्तीत्यर्थः ॥ खकामिनीकैरविणीतनूभवे विरश्चिना लोचनतामवापिते । विधातुमङ्के किमु लोलकैरवे यदास्यभावः शरदिन्दुना दधे ॥ २१ ॥ शरदिन्दुना घनात्ययसमयसंबन्धिना चन्द्रेण यदास्यभावो नाथीवदनता दधे अङ्गीकृता । उत्प्रेक्ष्यते-लोले चपले कैरवे कुमुदे अङ्के उत्सङ्गे विधातुं कर्तुमिव । उत्सङ्गग्रहणे हेतुमाह-स्वस्यात्मनः कामिन्याः प्रियायाः कैरविण्याः कुमुदत्यास्तनूभवे अङ्गजाते । स्वसुतयोरुत्सङ्गे करणं तु न्याय्यमेव । पुनः किंमते कैरवे । अवापिते नीते । काम् । लोचनताम् । अर्थान्नाथीदेव्या नेत्रत्वम् । केन । विरश्चिना वेधसा ।। विभाति यद्भयुगभासिनासिका विजित्य विश्वत्रितयं मनोभुवा । यदङ्गरुकपुञ्जपयोधिसंनिधौ कृतो यशःस्तम्भ इव ध्वजाङ्कितः ॥ २२ ॥ यस्या भ्रुवोर्युगेन भासते दीप्यते इत्येवंशीला नासिका विभाति । उत्प्रेक्ष्यते-मनोभुवा स्मरेण यशःस्तम्भः कृतः कीर्तिस्तम्भ आरोपित इव । किंभूतः । ध्वजाङ्कितः पताकाकलित: । कस्मिन्रोपितः । यस्या नाथीदेव्या अङ्गं शरीरं तस्य रुचां कान्तीनां पुञ्जः समूहः स एव पयोधिरतिबहुलत्वात्समुद्रस्तस्य संनिधौ पार्श्वे । किं कृत्वा । विश्वानां स्वर्भूमीपाताललक्षणानां जगतां त्रयं विजित्य निजौजसा स्वाज्ञावशंवदं विधाय। अपरोऽपि विजयी राजा जगजित्वा समुद्रतटे कीर्तिस्तम्भानारोपयतीति स्थितिः ॥ विडस्विताखण्डमृगाङ्कमण्डले कपोलपाली स्फुरतस्तदानने । . मणीमये दर्पणिके यदोकसोरिमे रतिप्रीतिमृगीदृशोरिव ॥ २३ ॥ तस्या देव्या आनने मुखे विडम्बितं निजश्रिया पराभवनं विडम्बनां प्रापितमनुकृतं वा अखण्डं संपूर्ण मृगाइस्य चन्द्रमसो मण्डलं विम्बं याभ्यां तादृशे कपोलपाली गण्डस्थले स्फुरतो लसतः । उत्प्रेक्ष्यते-यदोकसोर्या नाथी एवौको गृहं ययोस्तादृश्यो रतिप्रीत्योरेव मृगीदृशः कामस्य कान्तयोः । एतावता यां नाथीं निभात्य(ल्य) रतिश्चित्तनिर्वृतिः,प्रीतिः स्नेहः प्रमोदश्च, संपद्यत इत्यर्थः । इमे दृग्लश्ये मणीमये रत्नरचिते दर्पणिके आदर्शिके इव । 'यन्मतों विमलदर्पणिकायाम्' इति नैषधे ॥ किमिच्छता पाशयितुं जगत्रयीयुवतजान्वागुरिकेन(ण) रङ्कुवत् । स्मरेण यादःपतिपाशजित्वरी दधे द्विपाशी सुदृशः श्रुतिद्वयी ॥ २४ ॥ सुदृशो नाथीदेव्याः श्रुतिद्वयी श्रवणयुगली । भातीति संबन्धः । उत्प्रेक्ष्यते-स्मरेण मदनेन द्वयोः पाशयोः समाहारो द्विपाशी बन्धनग्रन्थी कि दधे धृतेन । अन्योऽप्यर्थो यथा-स्मरेण किं द्विपाशी बन्धनप्रन्थिद्वितयी किं दधे । सा का । सुदृशो नाथीदेव्याः श्रुतिद्वयी । 'ध्रुवम सरसोऽवतीर्य यं शतमध्यासत तत्सखीजनः' इति नैषधे । ध्रु
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy