SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १० काव्यमाला | द्यापि तथैव दर्शनात् । किं कृत्वा । विजित्य परिभूय । कया । निजस्यात्मनो जिवर्या जयनशीलया श्रिया शोभया पुंवद्भावे ईकारलोपः । काः । राजी: श्रेणीः । कासाम् । मृगीदृशां हरिणनयनानां स्त्रीणाम् । किंभूतानाम् | जगतां नागलोकस्वर्लोकम् लोकानां त्रयी त्रिकं तत्र जन्मावतारं जुषन्ते भजन्ते तादृशीनाम् । त्रिभुवनोद्भवानामित्यर्थः । एतावता सुरासुरनररमणीश्रेणीनिर्जित्य जयचामरं बिभतीत्यर्थः ॥ विधुं द्विधाकृत्य विधिर्व्यधत्त यल्ललाटमर्धेन शिवे न्यधात्परम् । न चेन्मृगाङ्कार्धधरः कथं हरः किमर्धचन्द्रोपमितं च तद्वहेत् ॥ १८ ॥ विधिविधाता विधुमर्थादीश्वर मस्तकस्थसंपूर्णचन्द्रमादाय द्विधाकृत्य द्वौ खण्डौ विधाय अर्धेन विधोस्तदेकभागेन यस्या ललाटं भालं व्यधत्त चक्रे । अत्र गर्भितोत्प्रेक्षा । कृतवावानिव । पुनः परं द्वितीयमर्धे शिवे ईश्वरे न्यधात्स्थापयामास । एवं चेन्न स्यात्तदा हरः शिवो मृगाङ्कार्धधरो अर्धचन्द्रभृत् । ' लब्धार्धचन्द्र ईश:' इति चम्पूकथायाम् । कथं केन प्रकारेण । च पुनस्तद्भालं तस्या ललाटमर्धचन्द्रोपम (मित) मष्टमीमृगाङ्कोपमानं च कथं कया रीत्या वहेद्धरेत् ॥ मृगीदृशो हेलित केलतीश्रियो ललाटपट्टे कुरलेन निर्वभे । स्मितारविन्दस्य धियेव तस्थुषा यदानने पौप्पपिपासया लिना ॥ १९ ॥ तस्या मृगीदृशो नाथीदेव्या ललाटपट्टे भालस्थले कुरलेन भ्रमरालकेन निर्बंभे वभासे । 'अक्षवाजवलयेन निर्बभे' इति रघुवंशे । किंभूताया मृगीदृशः । हेलिता अपगणिता केलत्याः कन्दर्पपत्न्या रत्याः श्रीः शोभा यया । 'केलती मदनयोरुपाश्रये' इति नैषधे । उत्प्रेक्ष्यते— स्मितस्य विकसितस्यारविन्दस्य पद्मस्य धिया बुद्ध्या यदानने नाथीमुखे पौष्पस्य पुष्पानामयं पौष्पो रसः यथा पुष्पोद्भवरजस्तथा पुष्पोद्भवो मकरन्दोऽपि तस्य पिपासया पातुमिच्छया तस्थुषा स्थितवता अलिना भ्रमरेण च । किं च पौष्पं मकरन्द इति भोजप्रबन्धादिककाव्येषु दृश्यते । तथापि सति परः पाठः -- 'स्मिता रविन्दस्य धिया यदानने स्थितं रसस्येव पिपासयालिना' । उत्प्रेक्ष्यते - स्मितारविन्दस्येव प्रोज्ज़म्भिताम्भोजस्य धिया यदानने नाथीवदने रसस्य मकरन्दस्य । 'रसो मधु मकरन्दो मरन्दश्च' इति हैम्याम् । पिपासया पानस्याभिलाषेण स्थितमर्थादागत्य अलिना भृङ्गेण स्थीयत इव ॥ अभूदृशाम्भोजदृशा स्म भूयते न जातुचिद्यौवतनिर्मितौ मम । इतीव रेखेयमिदंमुखे मषेर्मिषाद्भुवोर्नाभिभुवा व्यधीयत ॥ २० ॥ नाभिभुवा धात्रा इदंमुखे अस्या नाथीदेव्या वदने । उत्प्रेक्ष्यते — इति हेतोर्भुवोमिषाद्दम्भान्मषेर्मलिनाम्बुन इयं दृश्या रेखा व्यधीयत कृतेव । इति किम् । यन्मम यौवतनिर्मितौ त्रिभुवनस्त्रीसमूहनिर्माण अमूदृशा एतत्सदृक्षया अम्भोजदृशा पद्मलोचनया
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy