________________
२ सर्गः]
हीरसौभाग्यम् । केव । कुमुदतीव । यथा द्विजचक्रवर्तिनश्चन्द्रस्य । 'कन्दर्पेऽनल्पदर्पे विकिरति किरणाञ्शर्वरीसार्वभौमः' इति नाटकग्रन्थे । यथा शर्वरीसार्वभौमस्तथा द्विजचक्रवर्तीति । कुमुदिनी नाम प्रिया वर्तते । अमुष्य किं कुर्वतः । तनूमतां मनश्चित्तं समुत्कण्टयतः सम्यगुत्कण्ठया स्वदर्शनात्मगुणगणाकर्णनविधावत्योत्सुक्येन कलितं कुर्वतः । कमिव । पयःप्लवमिव । यथा विधुः शैवलिनीनां नदीनां पत्युर्भर्तुः समुद्रस्य पानीयपूर कण्ठात्कूलार्ध्व नयति । वृद्धिमन्तं करोतीत्यर्थः । कण्ठादूर्ध्व करोतीत्युत्कण्टयति । 'त. करोति तदाचष्टे' इति णिजिति पाणिनिः । सारस्वते तु 'निर्डिकरणे' इति । 'उत्कण्ठयति मां भक्तिरिन्दुलेखेव सागरम्' इति वाग्भटालंकारे ॥ चलेति विश्वे वचनीयताश्रुतेः प्रियेण बाणद्विषता तिरस्कृता । उदीतदुःखादिदमात्मना जनुः परं प्रपेदे किमु पद्ममन्दिरा ॥ १५ ॥ नाथी भातीति संबन्धः । किमुत्प्रेक्ष्यते-पद्ममन्दिरा लक्ष्मीरिदमात्मना एतत्स्वरूपेण । नाथीवपुषा इत्यर्थः । परमन्यजनुर्जन्म प्रपेदे प्रतिपन्नवतीव । कस्मात् । उ. दीतदुःखात्प्रकटीभूतासातात् । 'उदीतमातङ्कितवानशङ्कित-'इति नैषधे । किंभूता । बाण. नानो दैत्यस्य द्विषता वैरिणा कृष्णेन प्रियेण भर्ना तिरस्कृता धिकृता । कस्याः । इयं श्रीश्वलास्थिरातिचपला इत्यमुना प्रकारेण विश्वे लोके जगति वचनीयताया अर्थाल्ल. पम्या अपवादस्य श्रुतेः श्रवणात् ॥ .. ततं वचो यत्र घनं पदाङ्गदध्वनिश्च काश्च्याः सुषिरं स्वनः पुनः । तया बभे जङ्गमरङ्गशालया किमत्र शृङ्गारनटस्व नृत्यतः ॥ १६ ॥ तया मृगशा नाथीदेव्या बभे शुशुभे । अत्र जगति । नृत्यतस्ताण्डवं कुर्वतः शृङ्गा. रनाम्नो नवरसेष्वादिभूतस्य रसस्यैव । नटस्य नर्तकस्य जङ्गमया चलन्त्या रङ्गशालया नर्तनभवनभुवेव । यत्र रश्शालायां वच: अर्थात्तस्या वचनं ततं वीणाप्रभृतिकं विस्तीर्ण च । च पुनर्यत्र पदाङ्गदानां नपुराणाम्। 'नपुरं तु तुलाकोटिः पादतः कटकाङ्गदे' इति हेम्याम्। ध्वनी रावः । धनं तालप्रभृतिकं बहलं चास्ति । पुनर्यत्र काश्च्या मेखलायाः स्वनः शब्दः सुषिरं वंशादिकं किंकण्यादिजं च वर्तते । 'ततं वीणाप्रभृतिकं तालप्रभृतिकं घनम् । वंशादिकं तु सुषिरम्' इति हैम्याम् ॥ इति नाथीवर्णनम् ॥ जगत्रयीनन्मजुषां मृगीदृशां विजित्य राजीनिनजित्वरश्रिया । अधारि किं मूर्धनि पद्मचक्षुषा जयाङ्कबालव्यजनं कचच्छटा ॥ १७ ॥ यया पद्मचक्षुषा कमललोचनया नाथीदेव्या मूर्धनि स्वमस्तके कचच्छटा केशपाशः । 'बालाः स्युस्तत्परा: पाशो रचना भार उच्चयः । हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः ॥ इति हेम्याम् । तथा छटाशब्दः समूहवाचकश्च । 'तटान्तविश्रान्ततुरङ्गमच्छटा' इति नैषधे । किमुत्प्रेक्ष्यते-जयाङ्कबालव्यजनं वैरिविजयसूचकचिदचामरं किं धृतमिव । अर्थात्स्वमस्तके । जयचिदं हि चामराकशादिकं मौलावेव ध्रियते । गारुढिकादीनाम