SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ २ सर्गः] . हीरसौभाग्यम् । . ५३ अस्या मृगीदृशः सारङ्गलोचनाया मुखे वदने एव मुख्यतः प्राधान्याद् द्विजानामाधि. पत्यमैश्वर्यमास्ते ।, परं कुमुदतीपतौ कुमुदिनीवल्लभे चन्द्रे न, यद्यस्मात्कारणात् असौ मुख एव । मुखशब्दः पुनपुंसके । दिवानिशम् अहोरात्रम् अमीभिश्चक्षुर्लक्ष्यद्विजैर्दन्तैनिघेवणायाः सेवायाः विषयं गोचरं नीयते स्म प्रापितः। चन्द्रस्य तु नक्षत्रताराग्रहा यथा प्रत्यक्षा दृश्यन्ते, तथा न द्विजा इति ॥ यदाननान्तर्वसतेः सुधारसादिवोद्गतः पाटल एष कन्दलः । विलासदोलेव निखेलितुं गिरोऽथ वा मृगाक्षीरसना स्म शोभते ॥२९॥ मृगाक्ष्या नाथीदेव्या रसना जिह्वा शोभते स्म । उत्प्रेक्ष्यते-यस्या आननं मुखं तस्यान्तमध्ये वसतिर्वासो यस्य तादृशात् सुधारसादमृतनिस्यन्दादुद्गतः प्ररूढः प्रकटीभूतो वा पाटलो रक्त एष जिहालक्षणः कन्दलो नवाङ्कर इव । अथ वा पक्षान्तरे यद्वदनमध्यसौधाया गिरो वाग्देवताया निखेलितुमान्दोलितुं दोलान्दोलनलीनां निर्मातुं विलासदोलेव क्रीडाप्रेवेव ॥ यदीयवाचं विधिना विधित्सुना सुधामुपात्तामधिगम्य निस्तुषाम् । सुधाशना अध्वरभोजिनस्तदादितो बभूवुस्तदभावतः किमु ॥ ३० ॥ सुधाशनाः पीयूषभोजना देवास्तदादितस्तद्दिवसप्रारम्भात् । यस्मिनहनि सुधा निष्ठिता तदिनमादौ कृत्वेत्यर्थः । किमुत्प्रेक्ष्यते--तस्याः सुधाया अभावात्क्षयादध्वरमाद्यज्ञांशं भुञ्जन्तीत्येवंशीला अध्वरभोजिनो यज्ञाहारा बभूवुः संजाता इव । किं कृत्वा । अधिगम्य ज्ञाला । काम् । सुधाम् । किंभूतां सुधाम् । उपात्तां गृहीताम् । पुनः किंभूताम् । निर्गतस्तुषो अवशिष्टो बुशमात्रो यस्यां सा । 'तुषो बुशे' इति हैम्याम् । केन । विधिना सृष्टिकर्ता । विधिना किं चिकीर्षणा । विधित्सुना कर्तु काश्ता । काम् । यदीयां ना. थासंबन्धिनी वाचं वाणीम् । नाथीवचनचातुरीमित्यर्थः ॥ कुशेशयादर्शसुधांशुजित्वरं विधाय वेधाः इदमीयमाननम् । इदं दृशा मा कुदृशां प्रदुष्यतादितीव चक्रे चिबुकेन दन्तुरम् ॥३१॥ वेधा विधाता अस्या इदम् इदमीयमाननं वदनं विधाय निर्माय । उत्प्रेक्ष्यते-इति हेतोः चिबुकेन अंसिकाधःप्रदेशेन कृत्वा । 'दन्तवस्त्रं च तत्वान्तौ मृकणी असिकं त्वधः । असिकाधस्तु चिबुकम्' इति हैम्याम् । दन्तुरं विषमोन्नतं चक्रे कृतवानिव । किंमतमाननम् । कुशेशयानि पद्मानि, आदर्शा दर्पणाः, सुधांशवश्चन्द्राः, तेषां जित्वरं जयनशीलम् । यथा द्वादशसूर्यास्तथा चन्द्रा अपि बहवः सन्ति । 'स्फुरदम्भःसरोदम्भात्तैहिकेयभयादिव । राकामृगाङ्काः संभूय विभान्ति शरणागताः ॥' इति राघवपाण्डवीयचरित्रे । तथा'विधोविधिषिम्वशतानि लोपं लोपं कुदृरात्रिषु मासि मासि । अभङ्गरश्रीकमिमं किमस्या मु. खेन्दुमस्थापयदेकशेषम् ।।' इति नैषधे । तत्र चन्द्राणां बहुत्वोक्तेन दोषः । इति किम् । यदिदमाननं कुदृशां दुष्टानां दृशा दृग्दोषेण मा दुष्यताद्विकृति मा गच्छतादिति हेतुः ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy