SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ४३ १ सर्गः) . हीरसौभाग्यम् । स्त्रैणस्याञ्जननीलिमाङ्कितपतद्वाष्पाम्बुपूरैरिव क्ष्मापीठे प्रसरद्भिराविरभवत्पाथोजबन्धोः सुता ॥ १३६ ॥ यस्य साहेः प्रत्यार्थपृथ्वीभुजां वैरिनृपाणां स्त्रैणस्य स्त्रीणां समूहस्य अञ्जनानां नयनकजलानां नीलिम्ना श्यामत्वेनाङ्कितैर्युक्तैः तथा पतद्भिः दुःखभरालोचनेभ्यो निःसरद्भिः बाष्पाम्वुपूरै रोदनजलप्लवैः । इवोत्प्रेक्षते-पाथोजबन्धोर्भानोः सुता पुत्री यमुना आविरभव. प्रकटीभूता। किं वा---'अये यदि समीहसे परनृपावरोधं तदा त्वमाकलय मद्वचः किमपि रूपनारायण । प्रतीपनृपनागरीनयननीरकल्लोलिनीसमुत्तरणचातुरी तुरगराजमध्यापय ।।' इति कविकृतकाव्यादी बाष्पजलेभ्यो नदीप्रादुर्भावः । तथा-'राम त्वत्तरुणप्रतापदहनज्वालाव. लीशोषिताः सर्वे वारिधयस्तवारिवनितानेत्राम्धुभिः पूरिताः' इति खण्डप्रशस्तौ बाष्पजलैः समुद्रसद्भावोऽपि वणितः । किंभूतैः पूरैः । श्मापीठे भूमण्डले प्रसरद्भिः पयःप्रवाहतया विस्तारं गच्छद्भिः । किंभूतस्य यस्य । द्वेषिणां निषूदने मूलादुन्मूलने व्रतं सर्वेऽपि शत्रवो मयावश्यमुच्छेदनीया इति रूपं नियमं जुषते सेवते तस्य । किंभूतानां प्रत्यार्थपृथ्वीभुजाम् । संत्रासेनास्याकस्मिकभयेन कलिन्दनानो भूधरस्य शैलस्य गुहानां कन्द - राणां गभी मध्यभागस्तस्याङ्कमुत्सङ्गमासेदुषां प्राप्तवताम् । कलिन्दाद्रिकन्दरामध्यप्रविष्टा. नामित्यर्थः ॥ मुत्रामाम्बुधिधामदिग्गिरिकुचद्वन्द्वाब्धिनेमीधवः ___पृथ्वीपालललाटचुम्बितपदप्रोद्दामकामाङ्कुशः। द्यां स्वर्णाचलसार्वभौम इव यो निःशेषविश्वंभरां शासच्छात्रवगोत्रजिद्विजयते श्रीगुर्जरोर्वीपतिः ॥ १३७ ॥ श्रिया सप्ताङ्गलक्ष्म्या ऐश्वयेशोभया वा युतो गुर्जराणां गुर्जरभूमे यक उर्वीपतिः पातिसाहिविजयते सर्वोत्कर्षण प्रवर्तते । किंभूतः । सुत्रामा शक्रः अम्बुधिधामा वरुण- . स्तथोर्दिशोः प्राचीप्रतीच्योगिरी पर्वतौ उदयास्ताचलाभिधानो तावेव कुचद्वन्द्वं स्तनयुगलमस्यास्तादृश्या अधिनेमेः समुद्रमेखलाया भूमेर्धवो भर्ता । पुनः किंभूतः । पृथ्वीपालानां राज्ञां ललाटै लैश्चुम्बिताः स्पृष्टाः पदयोश्चरणयोः प्रोद्दामाः प्रकृष्टाः कामाङ्कशा नखा यस्य । किं कुर्वन् । शासत् पालयन् । काम् । निःशेषां समग्रां विश्वंभरां पृथ्वीम् । कामिव । धामिव । यथा स्वर्णाचलंस्य मेरोः सार्वभौमश्चक्रवर्ती दिवं शास्ति । 'जाम्बूनदोर्वीधरसार्वभौमः' इति नैषधे । यथा भूसार्वभौमस्तथैवेति यतः परसमये मेरोरुपरि स्वर्लोकः । नैषधे यथा--"दिवमङ्कादमराद्रिरागताम्' इति । मेरुर्भूमी(?)स्तत्रामरावती नगरी तस्याः पतिरिन्द्रः इति तन्वम् । किंभूतो राजा इन्द्रश्च । शात्रवाणामात्मवैरिणां गोत्राण वंशान् । शात्रवा रिपव एव गोत्राः पर्वतास्तान् जयतीति ॥ इति नृपवर्णनम् ॥ यं प्रासूत शिवाह्वसाधुमथवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसीहविमलान्तेवासिवास्तोप्पतिम् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy