________________
४४
काव्यमाला।
तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयु
क्सौभाग्याभिधहीरसूरिचरिते सर्गोऽयमाद्योऽभवत् ॥ १३८ ॥ इति पण्डितश्रीसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचिते हीरसौभाग्यनानि महाकाव्ये प्रथमप्रारम्भे जम्बूद्वीप-भरतक्षेत्र गुर्जरदेश-प्रह्लादनपुर-महमुन्दपातिसाहिवर्णनो नाम प्रथमः सर्गः।
हीर इति शब्देन युनक्ति योग प्रापोतीति हीरयुक् तादृशं सौभाग्यमिति अभिधा नाम यस्य । एतावता हीरसौभाग्यकाव्यम् । तच्च तद्धीरसूरेहीरविजयसूरीश्वरस्य चरितं वृत्तं च । पश्चात्कर्मधारयः । तत्र तस्मिन् हीरसौभाग्यकाव्ये अयं प्रत्यक्षलक्षो वर्णनागोचरीकृतः । तथा आद्यः प्रथमः सर्वसर्गाणां धुरि अभिहितः सर्गः अधिकारविशेषः अभवत् बभूव । किंभूतः । स पूर्वोक्तश्चासौ ब्राहया वाग्देवतायाः क्रमौ चरणौ सेवते आराधयतीत्येवंशीलश्च तादृशेन देवविमलेन व्यावणिते । विशेषवर्णनागोचरतां प्रापिते इत्यर्थः । यत्तदोनित्याभिसंबन्धात् म कः । यं देवविमलं शिवा इत्याला नाम यस्य तादृशः साधुः साहेषुमथवा प्रधानत्वादिन्द्रः साधुरिति वणिजां नाम प्राकृते तु अमुकसाह इत्युच्यते । तथा श्रीसुमतिसाधुसूरिकृतसोमसौभाग्यकाव्ये वणिजः साहस्य साधुरिति संज्ञा दृश्यते । सात्रापि । तया-'अपलपति रहसि दत्तं प्रकटितदक्तेऽपि संशयं कुरुते । क्रयविक्रये च लुण्ठति तथा लोके वणिक्साधुः॥' इति सुभाषिते । पुनः शिवासाहपत्नी नाम्ना सौभा. ग्यदेवी यं प्रासूत जनयामास । यं किंभूतम् । श्रीमन्तो विद्वद्वन्दारकत्वेन शोभाभाजो ये कोविदाः पण्डितास्तेघु सिंह इव सिंहः परवादिपुञ्जकुजरेन्द्रैरप्यजेयः कथमप्यनाकलनीयश्च । मुख्य इत्यर्थः । सीहविमलनामा प्रज्ञांशः । तस्यान्तेवासिनां शिष्याणां मध्ये वास्तोपतिरग्रणीः प्रथमशिष्यत्वेन प्रधानः ॥
इति पण्डितश्रीसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचिते स्वोपज्ञहीरसौभाग्यकाव्यवृत्ती प्रथमप्रारम्भे जम्बूद्वीप-भरतक्षेत्र-सतीर्थसरिरिरिकेदारगोधनबन्धुरगुर्जरदेशप्रह्लादनपार्श्वनाथोपवनपरिखाप्राकारगृहहट्युवयुवतीयुक्तप्रह्लादनपुर-महमुन्दपातिसाहिवनो नाम प्रथमः सर्गः ॥
द्वितीयः सर्गः। पुरेऽथ तस्मिन्व्यवहारिपुंगवो बभूव कुंरा इति नाम धामवान् । महीरुहां स्वःशिखरीव विश्रुतो रसास्पृशां न्यकृतविश्वनिःस्वतः॥१॥
अथ देशप्रामादिवर्णनानन्तरं मातपिठमातृस्वप्नादिवर्णनादि प्रारम्भे । तस्मिन्पूर्ववर्णित. प्रहादनपुरे कुरा इति नाम व्यवहारिषु महेभ्येषु पुंगवः श्रेष्ठो बभूव संजातः । 'पुंगवो गवि भैषज्ये प्रधाने चोत्तरस्थितेः' इत्यनेकार्थः । किंमतः । धामवान् गृहमेधी । अथवा तेजस्वी प्रभाववान् । 'धाम स्थाने गृहे गेहे प्रभावे जन्मतेजसोः' इत्यनेकार्थतिलकः । पुनः