________________
४२
काव्यमाला।
कर्मप्रवचनीयः स्यात्तत्र द्वितीया । हरिमभीति प्रक्रियायाम् । पृथिव्यामायातैरभैर्मेधैरिव । कया। अस्य भभुजः प्रसत्तेः प्रसादस्य प्रणिनीषया कर्तुमिच्छया । किमत्रैः । जितैरभिभूतैः । कैः । कमलानां लक्ष्मीनामुत्सर्गपयसां च दानैर्विश्राणनैः । कथम् । अश्यामितास्यमुन्वलीकृतं वक्र यत्रैवंविधं यथा स्यात्तथा ॥
अजय्यवीर्य निजनिर्जयायोद्यतं यमालोक्य विपक्षलक्षैः। वक्षत्रवृत्तीरपहाय भेजे क्षेत्रस्य वृत्तिः कृषिकैरिवात्र ॥ १३.३ ॥ अत्र भुवि विपक्षाणां साहिशत्रूणां लक्षैः स्वस्यात्मनः क्षत्रवृत्तीः क्षत्रियत्वेन या आजीविकाः । 'क्षत्रं तु क्षत्रियो राजा' इति हैम्याम् । ता अपहाय साहितः स्वमारणभीतेस्त्यक्त्वा क्षेत्रस्य केदारस्य वृत्तिर्जीवनं भेजे सिषेवे । कैरिव । कृषिकैरिव । यथा कृषिकारकैः क्षेत्रवृत्तिविधीयते । किं कृत्वा । निजस्यात्मनो निर्जयायाभिभवायोद्यतं प्रग. ल्भीभूतम् , तथा अजय्यं जेतुमशक्यं वीर्ये पराक्रमो यस्य तादृशं पातिसाहिमालोक्य दृष्ट्वा ॥
जम्बालयद्भिर्जलदैरिवोवीं मदाम्बुभिर्यस्य बभे द्विपेन्द्रैः । दिग्जैत्रयात्रासु जितैदिंगीशैदिग्वारणेन्द्ररुपदीकृतैः किम् ॥ १३४ ॥ यस साहेद्विपेन्द्रैगजराजैर्बभे व्यराजि । किं कुर्वद्भिः । जम्बालान्कुर्वन्तीति जम्बालयन्ति, जम्बालयन्तीति जम्बालयन्तः, तैर्जम्बालयुक्ता विदधद्भिः।काम् । उर्वी पृथ्वीम् । कैः। मदाम्बुभिः दानवारिभिः । कैरिव । जलदैरिव । यथा मेधैर्भूर्जम्बालकलिता क्रियते । किमुत्प्रेक्ष्यते-दिशां हरितां जैत्रीषु जयनशीलासु यात्रासु अभिषेणनेषु । सेनासमुदायेन रिपून् प्रत्यभिगमनेष्वित्यर्थः । जितैः स्ववशीकृतैदिंगीशैदिग्यतिभिरुपदीकृतैौकितैदिग्वारणेन्द्रदिग्गजैरिव ॥ विश्वकधन्वी शरसानृपोऽसौ मा क्वापि कुर्यात्परराजवन्माम् । निजीविषुर्भीत इतीव राजा नभो भ्रमीगोचरयांचकार ॥ १३५ ॥
राजा चन्द्रो नभो गगनं भ्रमण्या भ्रान्तेः । 'अपि भ्रमीभङ्गिभिरावृताङ्गम्' इति नैषधे । गोचरीकरोति स्म गोचरयांचकार । नभसि बभ्रामेत्यर्थः । राजा किं कर्तुमिच्छुः । जीजीविषुः साहेः सकाशाजीवितुमिच्छुः । इवोत्प्रेक्ष्यते-इत्यमुना प्रकारेण भीतश्चकित इव । इति किम् । विश्वे जगति पार्थ इवैकोऽद्वितीयो धन्वी धनुर्धरोऽसौ नृपः, परे शत्रवः, अन्ये च ये राजानस्तानिव मां राजानं शरसाद्वाणविद्धम् । 'प्रसूनधन्वा शरसात्करोति माम्। इति नैषधे । मा कुर्यात् । यथा साहिः विपक्षक्षितिपान्बाणैर्विध्यति तथा मामपि वाणैर्मा हतादित्यर्थः ।। यस्य द्वेषिनिषूदनव्रतजुषः प्रत्यर्थिपृथ्वीभुजां
संत्रासेन कलिन्दभूधरगुहागर्भ किमासेदुषाम् ।