________________
१ सर्गः]
. हीरसौभाग्यम् । तत्र देशे महमुन्द इति नामाभिधानं यस्य तादृशो भूमान् पातिसाहिरिति म्लेच्छवंशप्रसिद्धमधिपतिनाम । सोऽस्ति तत्समयानुसारेण बभूव । किंभूतः । स्थानां पराक्रमा. णामेकाद्वितीया भूः स्थानम् । पुनः किंभूतः । भूवलयस्य भूमण्डले वा एकोऽसाधा. रणो वीरः सुभटः । स कः । यस्य करेण राजदेयांशेन पीडिता संयुक्ता जाता भूर्वसुधा दिने दिने श्रियं लक्ष्मी धनधान्यादिकां दधौ धारयति स्म अनेकलक्ष्मीवती भवति स्म । केव । वधूरिव । यथा नवोढा नवपरिणीता वर्वशा करेण पीडिता आश्लेषणादिकं नीता सती दिने दिने श्रियं शरीरोपचयलक्षणां शोभा धत्ते ॥ प्रजां द्विजिलैरिव पीड्यमानां कलेविलासैरवसाय विश्वाम् । तां शासितुं दाशरथिः किमात्तजन्मा स्वयं साहिरसौ बभासे ॥१३०॥ असौ महमुन्दनामा साहिः. पातिसाहिः वभासे राजते स्म । किमुत्प्रेक्ष्यते-तां विश्वां वसुधां शासितुं पालयितुं स्वयमात्मना पुनर्द्वितीयवारमात्तजन्मा गृहीतावतारो दाशरथी राम इव । किं कृत्वा । अवसाय विज्ञाय । काम् । विश्वां पृथ्वीम् । किं क्रियमाणाम् । कले: कलियुगस्य विलासैविलसितैः पीड्यमानां संताप्यमानाम् । कामिव । प्रजामिव । यथा प्रजां प्रकृति पुरदेशलोकां द्विजिकैः पिशुनैः पीड्यमानाः कश्चित्प्रशास्ति ।
निस्त्रिंशमन्थानगमथ्यमानमहाहवक्षीरधिजन्मना यः । वत्रे बलिध्वंसविधानधुर्यो जयश्रिया शत्रुरिवासुराणाम् ॥ १३१ ॥ यः साहिर्जयश्रिया विजयलक्ष्म्या वव्रे वृतः । क इव । असुराणां शत्रुरिव । यथा कृष्णो जयेनोपलक्षितयां श्रिया वियते । किंभूतः। यः बलिनां बलवताम् । पलं सैन्ये पराकमे च। रिपुनृपाणां बलेर्दै त्यस्य ध्वंसविधानं वधकरणं तत्र धुर्यः समर्थः शत्रुवधविधायिनां धुरि गण्यः । किंभूतया जयश्रिया । निस्त्रिंशः खड्गः स एव मंन्धानगः मन्दराद्रिः। 'मन्थानगः स भुजगप्रभुवेटिघृष्टिलेखाचलद्धवलनिर्झरवारिधारः' इति नैषधे । वासुकेर्वेष्टनघर्षणजातासु लेखासु भ्रमन्त्यो धवला निर्झरवारिधारा यस्य स मन्थाः । मथिन्शब्दस्य 'पथिमध्यभुक्षामात्' इत्यावे थेादेशे रूपम् । नगः शैल: मन्दराद्रिः-इति तद्वात्तिः । तेन मध्यमानो विलोड्यमानो यो महाहवो महासंग्रामः स एव क्षीरधिः दुग्धसमुद्रः तस्मा. बन्मोत्पत्तिर्यस्याः सा.तया ॥ अश्यामितास्यं कमलातिदानैर्जितैः प्रसत्तिप्रणिनीषयास्य । अभैरिवाभ्राद्भुवमभ्युपेतैर्यद्भूभुजो गन्धगविरेजे ॥ १३२ ॥ यस्य भूभुजः साहेर्गन्धगजैः गन्धोपलक्षितैः सिन्धुरैः विरेजे शुशुभे। उत्प्रेक्ष्यते-अभ्रादाकाशाद्भुवं भूमीमभ्युपेतैः समागतैर्भूमीमभिलक्षीकृत्य । 'अभिरभागे भागर्ववर्जितेऽर्थेऽभिः
१. 'मन्यानग' इत्यस्य समासघटकत्वेन सुपरत्वाभावादालानुपपत्तेश्चिन्त्यमेतत्. नैषधे तु समासाभावान्न कोऽपि दोषः.