________________
(५८) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं ‘फलं' उत्कृष्टस्थितिलक्षणं भवतीति ॥ ११७ ॥ आह विदितमेतद्यदुदितं पञ्चम्याः प्रभृति विशेषः, परं द्वितीयादिष्टथ्वीपु षष्ठादिप्रस्तटेषु भागगणनया यदा सागरोपमं लभ्यते तदा च का वार्ता ? इत्याह
पयरम्मि जम्मि अयरं, सयलं वड्डइ गणिज्जमाणम्मि भागेहिं तो करणं, छेयविभत्तं फलं होइ ॥ ११८ ॥ प्रतरे यस्मिन् ‘अतरं' सागरोपमं 'सकलं ' परिपूर्ण 'वर्धते । वृद्धिं याति, कथंभूते सति ? इत्याह- गण्यमाने' संख्यायमान . इत्यर्थः, तदनन्तरं किं विधेयम् ? इत्याह-भागैस्ततः करणं वाह्यते, तत इष्टप्रतरे ये लब्धा भागास्ते छेदेन विभज्यन्ते, ततश्छेदविभक्तं फलं भवति । अयमत्र भावः-यथा द्वितीयष्टथिव्यामिष्टप्रतरे पष्ठे एकादशभक्तसागरोपमभागद्वयस्य मूलपतरलब्धस्य षड्भिर्गुणने जाता द्वादश भागाः, एतेषामेकादशभिर्भागे लब्धमेकं सागरोपममवशिष्टश्चैकादशभागः । ततः सप्तमप्रस्तटे तस्मिन्नवशिष्टैकादशभागे मूलप्रतरलब्धं भागद्वयं क्षिप्तं जातास्त्रय एकादशभागाः । अष्टम एतत्रयमध्ये ढयक्षेषे पञ्च। नवमे पञ्चकमध्ये द्वयक्षेपे सप्त | दशमे सप्तसु द्वयक्षेपे नव । एकादशे तु नवसु द्वयक्षेपे जाता एकादश भागाः, एषां चैकादशभिर्भागे दत्ते लब्धं पुनः सागरोपमम् , तस्मिंश्च षष्ठप्रतरलब्धसागरोपमक्षेपे रत्नप्रभा [सागरोपमक्षेपे च] सागरोपमत्रयम् , एतदेव च तत्रोत्सृष्टा स्थितिः । एवमन्याखपिटथ्वीषु स्वस्वभागक्षेपेण भावना कार्येति ॥११८॥ इदानीं द्वितीयादिष्टथ्वीप्रस्तटेषु षट्त्रिंशत्संख्येषु प्रमाणं जघन्यमुत्कृष्टं च दर्शयन्नाह
अयरोवमं जहएणं, वितियाए पत्थडम्मि पढमम्मि । अयरोवममुक्कोसं, एकारसभाग दो अण्णे ॥ ११६ ॥