________________
नरकेन्द्रप्रकरणम्। (५७) एवं तावन्नेयं यावदेकादशप्रस्तटे द्वौ सागरोपमैकादशभागावभीष्टप्रतरसंख्ययैकादशलक्षणया गुणितो, ततो जाता द्वाविंशतिः सागरोपमैकादशभागाः, तेषां चैकादशभिर्भागे हृते लब्धे द्वे सागरोपमे, तत उपरितनक्षित्या एकसागरोपमलक्षणया सह मीलने जातानि त्रीणि सागरोपमानि, इयमेव च तत्रोत्कृष्टा स्थितिः । एवमन्याखपि पृथ्वीषु प्रतिप्रस्तटं परिभाव्योत्कृष्टा स्थितिरानेयेति ॥ ११६ ॥ इयं च भागवृद्धिः कासु कासु पृथ्वीषु भवति कासु च न भवति ? इति दर्शयन्नाह
रयणादीपुढवीणं, णायव्या जा खिई चउत्थी उ ॥ पंचमियाइविसेसो, जहग्णसहियं फलं होइ ॥ ११७ ॥ रत्नादिष्टथ्वीनां प्रस्तटेषु ज्ञातव्या भोगवृद्धिस्तावद्यावत् 'क्षितिः' पृथ्वी चतुर्थी । 'तुः'. पूर्ववत् । ततः परं का वार्ता ? इत्याह-'पञ्च• म्यादिविशेषः' पञ्चम्यादिष्टथ्वीषु विशेषः प्राक्टथिव्यपेक्षया प्रस्तटे
प्वायुर्वृद्धौ वर्तते, स चायम्-प्राक्प्टथ्वीप्वधस्तनोपरितनस्थितिविशे• () षस्य स्वप्रतरैर्भागापहारे आद्यप्रस्तटेषु भागलाम एवासीत् । 'पञ्चमीप्रभृति तु प्रथमत एव सभागसागरोपमलाभः । यथा-चतुर्थ्या दश सागरोपमानि, पञ्चम्यां तु सप्तदश परा स्थितिः, तयोर्विशे (श्ले) पे जातं सप्त सागरोपमानि, तेषां पञ्चमष्टथ्वीप्रतरैः पञ्चभिर्भागे हृते लब्धं सागरोपमं द्वौ च सागरोपमप्रमाणस्य पञ्चभागौ, इदं तु लब्धमिष्टप्रतरलक्षणया संख्यया यदा गुण्यते तदा वक्ष्यमाणं फलं भवतीति । आह किमेतदेवोत्कृष्टस्थितिप्रमाणमाहोस्वित्कश्चिदन्योऽपि विशेषः समस्ति ? इत्याशंक्याह-' जघन्यसहितं' खकीयजघन्यस्थितिसमन्वितं " उपरिक्षितिस्थितिविशे (श्ले) षः” इत्यादिना क्रमेण यल्लब्धं तत्किम् ? इत्याह- .