________________
(५६) मुनिचन्द्रसूरिविरचितवृत्तिसमेत दशभागाः, दश दशभागाः सागरोपममेवेत्यर्थः । इदमस्य गाथादलस्य तात्पर्यम्-षष्ठप्रस्तटे द्वौ दशभागौ सागरोपमस्य जघन्या, त्रयश्चोत्कृष्टा । सप्तमप्रस्तटे त्रयः सागरोपमदभागा जघन्या चत्वार उत्कृष्टा स्थितिः। एवं पूर्वप्रस्तटोत्कृष्टान् भागान् जघन्यपदे स्थापयता खजघन्यांश्चैकेन । दशभागेनाभ्यधिकानुल्कृष्टपदे कुर्वता तावन्नेयं यावत्रयोदशप्रस्तटे नव सागरोपमदशभागा जघन्या, उत्कृष्टा तु दिश] दशभागा इति ॥११॥ . इत्थं प्रथमप्रथिव्यां प्रतिप्रस्तटं जघन्यामुत्कष्टां च स्थितिं प्रतिपाद्य. शेषास्वप्युत्कष्टां तां तावत्प्रतिपादयन्नाह
उवरिखिइटिइविसेसो, सगपयरविभाग इच्छसंगुणियो। उवरिमखिइठिइसहियो, इच्छियपयरम्मि उक्कोसा ॥११६॥ [उपरिक्षितिस्थितिविश्लेषः] उपरिक्षितिस्थितेः पात इत्यर्थः, स्वकप्रतरैविभागः क्रियते यश्च तत्र लभ्यते भागः सः 'इच्छासंगुणितः' इच्छयाऽभीष्टप्रतरसंख्यालक्षणया गुणितः सन् ‘उपरिमक्षितिस्थितिसहितः' सागरोपमादिपाश्चात्यष्टथ्वीस्थितिसमन्वितः [ 'इच्छितप्रतरे' ] अभीष्टप्रतरे उत्कृष्टा स्थितिर्भवति । इयमत्र भावना-यदा शर्कराप्रभायां प्रथमप्रस्तट एवोत्कृष्टा स्थितिझतुमिप्यते तदा शर्कराप्रभाया उत्कृष्टस्थितेः सागरोपमत्रयलक्षणाया मध्याद्रत्नप्रभोत्कृष्टा स्थितिः सागरोपमलक्षणा पात्यते, ततो जातं सागरोपमद्वयम् , तच्चैकादशभिः शर्कराप्रभाप्रतरैरपहृतम् , अपहृते च लब्धौ द्वौ सागरोपमैकादशभागौ, तौ चेप्टप्रतरप्रमाणे कलक्षणेन गुणिते “एकगुणं तत्तियं चेव" इति वचनात् तन्मात्रस्थितावुपरितनक्षितिस्थित्या सह संयोजने तयोर्जातमिदमेकं सागरोपमं द्वौ सागरोपमस्यैकादशभागौ, इयं च तत्रोत्कृष्टा स्थितिः ।