________________
नरकेन्द्रप्रकरणम्। (५५) दीनां एथ्वीनां " तास्थ्यात्त्यद्वयपदेशः " इति तत्स्थानां नारकाणा 'जघन्येन' जघन्यपदापेक्षया स्थितिरिति ॥ ११२ ॥ एनामेव प्रतिप्रस्तदं विभज्य दर्शयन्नाहदस णडई च सहस्सा, पढमे पयरम्मि ठिति जहरिणयरा । सा सयगुणिया बीए, तइयम्मि पुणो इमा होइ ॥ ११३ ॥ णई लक्ख जहण्णा, उकोसा पुब्बकोडि णिदिवा।
आदीऍ पुवकोडी, दसंभागो सागरस्सियरा ॥ ११४ ॥ दसभागो पंचमए, दो दसभागा य होंति उक्कोसा । एगुत्तरवुड्डीए, दसेव भागा भवे जाव ॥ ११५ ॥
सहस्रशब्दस्य प्रत्येकमभिसंबन्धात् दश सहस्राणि नवतिश्च सहस्त्राणि 'प्रथमे प्रतरे' सीमन्तकनानि 'स्थितिः' अवस्थानकालो नरकाणां जघन्येतरा च क्रमेण भवति, जघन्या १०००० उत्कृष्टा ९००००। 'सा' जघन्येतरा च स्थितिः ‘शतगुणिता' शताभ्यस्ता सती 'द्वितीये' द्वितीयप्रस्तटे जघन्येतररूपा जायते, सा चेयम्-जघन्या १.०००००० उत्कृष्टा ९०००००० । तृतीये प्रस्तटे पुनः 'इयं' वक्ष्यमाणा भवतीति ॥११३॥ नवतिर्लक्षाणि जघन्या उत्कृष्टा पूर्वकोटिनिर्दिष्टा तीर्थकरगणधरादिभिः । चतुर्थप्रतरे पुनः 'आदौ' जघन्यपदे । स्थितिः पूर्वकोटिः, 'दशभागः' दशमोऽशः सागरस्य 'इतरा' उत्कृष्टा स्थितिर्भवतीति ॥ ११४ ॥ 'दशभागः' उक्तरूपः पञ्चमके प्रस्तटे जघन्या स्थितिः, द्वौ दशभागौ च भवत उत्कृष्टा स्थितिः। एवमेको त्तरवृद्ध्या तावन्नेयं दशैव भागा भवेयुर्यावत् । क्वचित् “दस दसभागा" इति पाठः, ततश्च दशभिर्भागः खण्डितस्य सागरोपमस्य