________________
(५४) मुनिचन्द्रसूरिषिरचितवृत्तिसमेत प्रक्षेपः कार्य इति भावः। यदि पुनस्त्रिंभिर्भागे पातिते एककोऽवशिष्यते तदा स एककः ' त्र्यो' व्यस्रराशावेव क्षिप्यते 'दो य चउरंसे' त्ति यदा द्वावशिष्टौ भवतस्तदैकश्चतुरस्र चकारात् त्र्यसे चैकः क्षिप्यत इति । इदमुक्तं भवति यदा सीमन्तकादौ क्वचित्प्रस्तट एकस्यां दिशि विदिशि . वा वृत्तादिनरकावासप्रमाणं ज्ञातुमिच्छति तदा या काचिदेकोनपञ्चाशदादिकाऽष्टचत्वारिंशदादिका वा श्रेणिरुपलभ्यते तस्यां त्रिभिर्विभक्तायां लब्धं वृत्तत्र्यलचतुरस्रलक्षणेषु त्रिषु स्थानेषु स्थाप्यते, यदि च विभतशेष एकको भवति तदा त्र्यस्रराशौ क्षिप्यते, द्वौ पुनर्विभक्तशेषौ यदा भवतस्तदैकरूया एकश्चतुरस्र निक्षिप्यते, ततो वृत्तादिप्रमाणं स्फुटं भवतीति ॥ ११० ॥ एवं सप्तस्वपि पृथ्वीपु. नरकावासस्वरूपं सप्रपञ्च प्रतिपाद्य सांप्रतं तास्वेव सामान्येन प्रतिप्रस्तटं विशेषेण चायुरुत्सृष्टतो जघन्यतश्च प्रतिपादयितुमिच्छुर्गाथाषोडशकमाह
एग ति सत्त दस सत्तरेव वावीस तह य तेत्तीसा। रयणाइसु पुढवीसुं, उक्कोस ठिती उ अयराणि ॥ १११ ।। एकं त्रीणि सप्त दश सप्तदशैव द्वाविंशतिः तथा च त्रयस्त्रिंशत , अतराणीत्युत्तरेण संबन्धः, किम् ? इत्याह-रत्नादिपु' रत्नप्रभादिषु पृथ्वीपु "उल्लष्टा स्थितिः ' उत्कर्षप्राप्तमवस्थानं 'तुः ' पूरणार्थः 'अतराणि' सागरोपमानीति ॥१११॥ अथ जघन्या स्थितिरुच्यते---- दसवाससहस्साई, एग ति सत्त दस तह य सत्तरस । वावीसा अयराई, रयणाईणं जहरणे ॥ ११२ ॥
दशवर्षसहस्राणि एकं त्रीणि सप्त दश तथा न सप्तदश द्वाविंशतिः 'अतराणि ' सागरोपमानि, किम् ? इत्याह-'रत्नादीनां' रत्नप्रभा-..