________________
नरकेन्द्रप्रकरणम्। न तीर्यत इत्यतरः-सागरस्तेनोपमा यस्य तदतरोपमं 'जघन्यं । जधन्यस्थितिप्रमाणम् , क ? इत्याह-द्वितीयायाः पृथिव्याः संबन्धिनि प्रस्तटे प्रथमे। तथा 'अतरोपमं' उक्तस्वरूपमेव 'उत्कृष्टं ' स्थितिप्रमाणमेकादशभागौ द्वावन्याविति ॥११९॥ अस्यामेव शेषप्रतरातिदेशमाह
एवं बिउत्तराए, वड्डीए जाव तिरिण अयराई । ताई चिय तइयाए, पढमे पयरे जहरणेणं ॥ १२०॥ ताई चिय उक्कोसा, चउरो णवभाग होंति अण्णे उ । चउरुत्तरिया वड्डी, णेयव्वा जाव सत्तयरा ॥ १२१ ॥ सत्तेव चउल्थीए, अयरोवम ठिति जहरिणया होइ । सत्तेव य उक्कोसा, तिगणव य सत्तभागा उ ॥ १२२ ॥ ' एवं ' प्रथमप्रतरवद् ' द्वयुत्तरया वृद्धया' प्रतिप्रतरमपरापरभागद्वयवृद्धिलक्षणया तावन्नेयं यावदेकादशप्रस्तटे जातानि त्रीण्यतराणि, एकस्य सागरोपमस्य रत्नप्रभाप्टथ्वीगतस्येहानुवर्तनाद्वयोश्च भागवृद्धि
वशेन लब्धत्वात् । अथ वालुकां प्रतीत्याह-'तानि चैव " · ब्रीणि सागरोपमानि तृतीयायां पृथिव्यां प्रथमे प्रतरे 'जघन्येन' - 'जघन्यतः स्थितिर्भवतीति ॥१२०॥ ' तान्येव ' त्रीणि सागरोपमानि
उत्कृष्टा ' उत्कर्षवती स्थितिः ‘चत्वारो नवभागाः ' नवभागीकंतम्य सागरोपमम्य चत्वारो भागा इत्यर्थः, भवन्ति । अन्ये तु' सागरोपमत्रयातिरेकिणः पुनः प्रथमप्रतरे । यथा प्रथमप्रस्तटे तथा शेषेप्वपि इत्याह-चतुरुत्तरिका पूर्वा(व)पूर्वसागरोपमनवभागचतुष्टयलक्षणे वृद्धिर्नेतव्या यावन्नवमप्रतरे जातान्युत्कृष्टतः सप्तातराणीति ॥१२१॥ · सप्तव चतुझं एथिव्यां प्रथमप्रस्तटे अतरोपमानि स्थिति पन्यका