________________
नरकेन्द्रप्रकरणम्। (३७) तिनां च नरकावासानां विधेयम् । परं दिग्वर्तिसमासा पेक्षया विदिभरकावाससमासाई भवति रूपोनम् । ततः किं कार्यम् ? इत्याह'स्वकपतरैः' त्रयोदशादिमिर्गुणयित्वा — शोधनकं' शोधनीयराशि प्रतरगुणनागतराशेर्मध्यात् 'शोधय ' अपनय ' इदं तु ' वक्ष्यमाणं पुनः ॥ ७२ ॥ यथा- . पुढवीपत्थडतुलं, सोहणयं रयणमादिसु दिसासु । वारस वारस नव छ च छ, च तिरणेव विदिसासु ॥७३॥ 'पृथ्वीप्रस्तटतुल्यं' पंथिव्यां पृथिव्यां ये त्रयोदशैकादशादयः प्रस्तटास्तत्प्रमाणं 'शोधनकं' शोधनं भवतीति । कासु ? इत्याह-' रयणमाइसु' त्ति रत्नप्रभादिपु पृथ्वीषु 'दिक्षु' दिग्वर्तिनरकावासविषये । तथा द्वादश द्वादश नव षट् च षट् च त्रय एव 'विदिक्षु' विदिग्वर्तिन. रकावासविषये इति ॥७३॥ इदमेवं शोधनकं कथमुत्पद्यते ? इत्याह
सव्वेसि पत्थडाणं, एगदिसाए उ पयरमाणेणं ।
एकेकूणे ठाविय, तिभागसेसं तु सोहणयं ॥ ७४ ॥ . “सर्वेषां प्रस्तटानां ' त्रयोदशादीनां संबन्धिनो नरकावासान् एकस्यां दिशि 'तुः' पुनरर्थे उपलक्षणत्वाद्विदिशि च वर्तमानान् 'प्रतरमानेन ' प्रतरप्रमाणा वारा इत्यर्थः 'एकैकोनान् ' एकेनैकेन परिहीणान् स्थापयेत्, ततस्त्रिभिर्विभजेत्, तत्र ' त्रिभागशेषं तु' त्रिभागावशिष्टं पुनः शोधनकं नानीहीति शेषः ॥ ७४ ॥ एवं शोधनके द्विप्रकारे सिद्धे सति किं कार्यम् ? इटह- एयं वाहग्गामोऽवणेत्तु सेसं तिहा विभइऊणं । .. तिहि ठाणेहि ठवेडे, सोहणगस्सावि हर भागं ॥ ७ ॥