________________
(२४) मुनिचन्द्रसूरिविरचितवृत्तिसमेत 'उत्तरहीने' उत्तरेण-अष्टरूपेण हीने सति 'प्रक्षिपेत् ' न्यसेत् 'आदि' पञ्चकरूपम्, ततो जातमिदम् ३८९, तदिदं 'अन्तिमधनं' सीमन्ताख्यपर्यन्तप्रस्तटनरकावासप्रमाणं संपद्यते । यदा त्वन्त्यधनमेव 'आदियुतं' मूलसमेतं चतुर्णवतित्रिशतप्रमाणं सत् 'गच्छाईगुणं तु' गच्छस्यैकोनपञ्चाशल्लक्षणस्या.न-दलेन संगुणितं पुनः क्रियते तदा 'सर्वधनं' सर्वप्रस्तटनरकावासप्रमाणं भवतीति ॥ ४६॥ " गच्छाई-. संगुणं" इत्युक्तम् , अयं च गच्छो विषमपदव्यवस्थितत्वेनार्डेन विभक्तुं [न] शक्यते, अतः किं कर्त्तव्यम् ? इत्याह
जो गच्छु न देअद्धं, तस्स उ रासीऍ गिरिहऊणदं ।
गच्छगुणं सव्वधणं, एवं सत्तण्ह वि करेजा ॥४७॥ - यो 'गच्छः' एकोनपञ्चाशल्लक्षणः 'न' नैव 'दत्ते' प्रयच्छति 'अर्द्ध द्विभागरूपं 'तस्य तु' गच्छस्य पुनः संबन्धिनः ‘राशेः' गुण्यस्य 'गृहीत्वा' आदाय 'अई' उक्तलक्षणं 'गच्छगुणं' कुर्यात् ततः सर्वधनं भवति । यथा-एकोनपञ्चाशल्लक्षणे गच्छेऽर्द्धमददाने तेन यो राशिर्गुणयितुमिष्टः चतुर्णवतशतत्रयमानः ३९४, तस्याई सप्तनवत्यधिकशतमानं १९७ गृहीत्वा गच्छेनैकोनपञ्चाशल्लक्षणेन गुण्यते जातानि षण्णवतिशतानि त्रिपञ्चाशदधिकानि ९६५३, एतच्च सर्वधनप्रमाणमिति । एवमविभागेनावलिकाप्रविष्टनरकावासप्रमाणं प्रतिपाद्य सांप्रतं प्रतिष्टथिवि तदेवातिदिशन्नाह-एवं' सामान्यन्यायेन 'सप्तानामपि' रत्नप्रभादीनां पृथ्वीनां प्रत्येकं करणं 'कुर्याद ' विदधीत, ततश्चान्तिमधनं सर्वधनं चागच्छति । यथा-रत्नप्रभायां पुर्यन्तप्रस्तटे आवलिकागतनरकावासप्रमाणं वे शते त्रिनवते २९३ एष किलादिः,