________________
नरकेन्द्रप्रकरणम्। वश्यते तदानन्तरकरणलब्धमेव प्रमाणं रूपोनं सच्छोधयेदेकोनपञ्चाशलक्षणात्सर्वप्रतरप्रमाणात्, ततो यत्तत्रावशिष्टं तत्प्रतरप्रमाणं भवति । यथा-अप्रतिष्ठानप्रस्तटप्रमाणमेककलक्षणम्, तच्च रूपोनं संजातं शून्यम् , तस्मिन्नेकोनपञ्चाशतः शोधिते "राशिरविकृतः खयोजनापगते" इति वचनात् स्थिता एकोनपञ्चाशदेव, ततश्च सीमन्तकादप्रतिष्ठानस्तावत्तिथो भवति । एवं तावन्नेयं यावदेकोनपञ्चाशद् रूपोना जाता अष्टचत्वारिंशत् , तस्यां सर्वप्रतरप्रमाणाच्छोधितायामवशिष्ट एकः, तत्प्रमाणः सीमन्तकः प्रतरो भवतीत्यर्थः ॥४४॥ अथैकोनपञ्चाशति नरकप्रस्तटेऽन्तिमधनसर्वधने येन करणेनागच्छतस्तत्सिद्धये परिभाषामाह
. पंचेव हवइ आई, अद्वेव य उत्तरं मुणेयव्वं ।
__ अउणापरणं गच्छो, णरयावलि त(इ)त्तिया चेव ॥४॥ . पञ्चैव नरकावासाः ‘भवन्ति' संपद्यन्ते 'आदिः' मूलम् । अप्रतिष्ठानांदूर्ध्व नरकावासवृद्धिचिन्तायां ‘अष्टैव च ' अष्टप्रमाणमेव 'उत्तरं' प्रतिप्रतरं नरकावासवृद्धिलक्षणं 'मुणितव्यं ' ज्ञातव्यम् , तथैकोनपञ्चाशंदः ‘गच्छ' सर्वप्रतरप्रमाणलक्षण इहोच्यते । तथा 'नरकावलयः' नरंकश्रेणय एकैकस्यां दिशि सप्तस्वपि नरकप्टथ्वीषु 'इयत्यश्चैव' एकोनपञ्चाशत्प्रमाणा एव, स्वरूपज्ञापनमेतदासामिति ॥ ४५ ॥ इदानीं करणमुच्यते
गच्छुत्तरसंवग्गे, उत्तरहीणम्मि पक्खियाई।
अंतिमधनमाइजुयं, गच्छद्धगुणं तु सव्वधणं ॥ ४६॥ आदिः ५ उत्तरं ८ गच्छः ४९ । ततः गच्छोत्तरयोः 'संवग्गे' अभ्यासे जातानि त्रीणि शतानि द्विनवत्यधिकानि ३९२, तत्र राशौ