________________
( २२ )
मुनिचन्द्रसूरिविरचितवृत्तिसमेत
पञ्चाशत्तमः प्रस्तटः । तत्र किल पञ्च नरकावासाः, तेषु प्रथमप्रस्तटाग्राच्छोधितेषु शेषं त्रीणि शतानि चतुरशीत्यधिकानि तेषु चाष्टाभिविभक्तेषु लब्धाऽष्टचत्वारिंशद्रूपाधिका कृता संजाता एकोनपञ्चाशत् ४९, सा चेष्टप्रतरप्रमाणं भवतीति ॥ ४३ ॥ संप्रत्यप्रतिष्ठानादूर्ध्वमुखं प्रस्तुतप्रस्तटप्रमाणानयनार्यैवाह
गिरयग्गे पंचूणे, विभत्तम्मि स्वसहियम्मि | हेट्ठा वियाण पयरं तं पिय रुवणयं सोहे ॥ ४४ ॥ 'निरयायें ' नरकप्रमाणे कस्मिंश्चिद दृष्टे ततः 'पञ्चोने' पञ्चभिने कृते ' अष्टविभक्ते ' अष्टभिर्हतभागे यहब्धं तस्मिन् रूपसहिते सति " अधस्तात् ' तलभागात 'विजानीहि ' अवबुध्यस्व ' प्रतरं ' इष्टप्रतरसंख्यामूर्ध्व सीमन्तकन्दरकावासं यावत् । इत्थमधस्तात्प्रतर प्रमाणानयनं प्रतिपाद्योपरिष्टादपि भङ्गयन्तरेण तत्प्रतिपादयन्नाह - ' तदपि च ' तदेव प्रतरप्रमाणं पूर्वप्रकारलब्धं 'रूपोनकं' रूपमात्रहीनं 'शोधयेत् ' अपनयेत्, प्रतरप्रमाणादौघिका देकोनपञ्चाशलक्षणादिति गम्यते । ततो यत्तत्रावशिष्टं तदुपरितनभागादधोभिमुखं प्रतरप्रमाणं भवति । यथा - नरकाग्रेऽप्रतिष्ठानप्रस्तटसंबन्धिनि पञ्चकलक्षणे पञ्चोने कृते स्थितं शून्यम्, तस्मिन्नष्टाभिर्विभक्ते “ खस्य गुणनादिके खम् " इति वचनात् लब्धं शून्यमेव, तस्मिन् रूपसहिते जात एककः, अधस्तादूर्ध्वक्रमापेक्षयाऽप्रति'ष्ठानः प्रथमः प्रस्तटो भवतीत्यर्थः । एवं तावन्नेयं यावन्नरकाग्रे सीमन्तकनरकप्रस्तरसंबन्धिनि पञ्चोने कृते सत्यष्टाभिर्विभक्ते लब्धाष्टचत्वारिंशत, तस्यामेककसहितायां जातैकोनपञ्चाशत्, तावत्तिथोऽप्रतिष्ठानात्सीमन्तकप्रस्नटो भवति । यदा तदेव प्रस्तटप्रमाणमुपरिष्टादधोमुखं.. बि