________________
'अवशेष ' अवशिष्टं दृश्यते तत् 'निरयाग्रं' निरयप्रमाणं जानीहि, कासाम् ? इत्याह-रत्नप्रभादीनां नरकप्टथ्वीनामिष्टप्रस्तटेप्विति । यथा-रत्नप्रभायामिष्टप्रस्तटसंख्या त्रयोदश, ते च रूपोना अष्टगुणाश्च प्रथमप्रस्तटाग्रादेकोननवतशतत्रयप्रमाणाच्छोध्यन्ते ततो जातमिदं २९३ त्रयोदशप्रस्तटे । एवं द्वितीयादिएथ्वीप्वपि प्रथमप्रस्तटाग्रं स्वयमेवाभ्यूह्य एकादशाद्यन्तर्गताभीष्टप्रस्तटाश्रयेण भावना कार्येति ॥ ४२ ॥ इत्थं प्रस्तटप्रमाणान्निरयावासप्रमाणानयनं प्रतिपाद्य संप्रति निरयावासप्रमाणाजिज्ञासिततत्पस्तटप्रमाणानयनायाह
दवण णिरयसंखं, सोहेज्जा पढमपत्थडग्गायो । सेसे अहविभत्ते, स्वहिते पत्थडं जाण ॥ ४३ ॥
' दृष्ट्वा ' निभाल्य, काम् ? इत्याह-'निरयसंख्यां' आवलिकागतंनिरयावासप्रमाणलक्षणां काञ्चित् , तां च ' शोधयेत् ' अपनयेत् 'प्रथमप्रस्तटाग्रात् ' उक्तरूपात् । ततोऽपि किम् ? इत्याह-' शेषे' अवशिष्टे राशौ 'अष्टविभक्ते' अष्टाभिर्भागे हृत इत्यर्थः, तत्र च यल्लब्ध तस्मिन् 'रूपाधिके ' एकरूपाधिके 'प्रस्त' प्रस्तटप्रमाणम् 'जानीहि' अवंबुध्यस्व । यथा किल दृष्टैकाशीत्यधिकत्रिशतप्रमाणा निरयसंख्या, शोधिता च रत्नप्रभाप्रथमप्रस्तटाग्रादेकाननवतशतत्रयप्रमाणात् , संजातं शेषमष्टौ, तस्मिन्नष्टाभिविभक्ते लब्ध एककः, तस्मिन् रूपाधिके कते संजातौ हौ, द्वितीयः स प्रस्तटो भवतीत्यर्थः । एवं तावन्नेयं यावदेकोन
" नविंशत्यादिनकोऽचान्तः” (सि. हे० ३-१-६९) एकशब्दस्तृतीयान्तो नविंशत्यादिना समासस्तत्पुरुषो भवति, एकस्य चाद-त्तः । एकेन न विंशतिः एकानविंशतिः । एवं एकात्रत्रिंशत् एकामचत्वारिंशदादायः ॥