________________
(२०) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं तत्तत्रावलिकागतनरकावासप्रमाणं भवति । एवं तावन्नेयं यावदप्रतिष्ठानप्रस्तटेऽवशिष्टाः पञ्च नरकावासा इति ॥४०॥ एवं सीमन्तकादधम्तादिष्टप्रतरगतावलिकानरकावासप्रमाणं प्रतिपाद्य संप्रत्यप्रतिष्ठानादूर्ध्व तत्प्रतिपादयन्नाह
जइमं इच्छसि सेणिं, उवरिमहत्तो उ टावए तइमं । .. सा सेढी रूवृणा, अगुण सपंचगं पयरं ।। ४१॥ . 'जइमं ' ति यत्प्रमाणां ' इच्छसि ' वाञ्छसि ' ज्ञातुम् , काम् ? इत्याह-' श्रेणिं' श्रेणिगतनरकावासप्रमाणवत्तया प्रस्तटं 'उवरिमहुतो उ' ति ऊर्ध्वाभिमुखं पुनः ' स्थापयेः ' न्यसेः त्वं ' तइमं ' ति. तत्प्रमाणाम् , ततः सा 'श्रेणिः' प्रतरप्रमाणरूपा रूपोनाऽष्टगुणा ‘स पञ्चगं' ति सपञ्चका 'प्रतरं ' प्रतरगतावलिकानरकावासप्रमाणं जानीहि । यथा-अप्रतिष्ठानादुपरि द्वितीयप्रस्तटो द्विरूपः स्थाप्यते, स चैकोनः सञ्जात एककः, तस्मिन्नष्टगुणे सपञ्चके च जातं प्रकृतं प्रस्तटनरकावासप्रमाणं त्रयोदश । एवं सर्वत्र, यावत्सीमन्तके त्रीणि शतान्येकोननवतानि नरकावासानामिति ॥ ४१ ॥ सांप्रतं " नरइंदयम्मि जो जम्मि" इत्यादि (३९-४०) गाथाद्वयोक्तमेवार्थ प्रत्येक रत्नप्रभादिपृथ्व्याधयेणाह
रूखूणमिट्ठपयरं, अगुणं पढमपत्थडग्गाओ । सोहेत्तु जमवसेसं, गिरयग्गं रयणमाईणं ॥ ४२ ॥
'रूपोनं' रूपहीनम् 'इष्टप्रतरं ' इष्टप्रतरसंख्यां त्रयोदशैकादशनवाद्यन्तर्गतम् , किम् ? इत्याह-अष्टगुणं सन्तं 'प्रथमप्रस्तटाग्रात्' प्रथमप्रस्तटगतावलिकाप्रविष्टनरकावासप्रमाणात् ' सोहेत्तु' त्ति अपनीय यद