________________
.... नरकेन्द्रप्रकरणम् ।
(१९) अयमत्र भावः-किल दिक्षु पृथक्टथगावलिकाप्रविष्टा नरकावासा एकोनपञ्चाशद, विदिक्षु चाष्ट चत्वारिंशत्, उभयेषां मीलने चतुर्गुणत्वे इन्द्रकप्रक्षेपे च प्रस्तुतसंख्या निप्पाने, सा चेयम्-३८९ ॥ ३८ ॥ अथ द्वितीयादिप्रस्तटेप्वावलिकागतनरकावाससंख्याऽऽनयनोपायभूतं गाथाद्वयमाह:
णरइंदयम्मि जो जम्मि इच्छती णिरयसेढिपरिमाणं । रूवणं अडगुणं, वं वेव तो विसोहेज्जा ॥ ३ ॥ • मूलपयररासीओ, अउणाणउएहिं तिहिं सएहितो। । बोसटे जं सेस, तं पयरं तम्मि संखायं ॥ ४० ॥
'नरकेन्द्रके ' नरकप्रस्तटे ‘यः' कश्चिदावलिकागतनरकावासप्रमाणं जिज्ञासुः ' यस्मिन् ! द्वितीयादौ ' इच्छति ' अभिलषति ज्ञातुमिति गम्यते, किम् ? इत्याह-निरयश्रेणिपरिमाणं ' आवलिकागतनरकावाससंख्यानम् , सं किं कुर्याद ? इत्याह-रूपोनं ' एकेन रूपेण हीनं सन्तं ' अष्टगुणं " अष्टाभिर्गुणितं ' तं चैव ' तमेवेष्टप्रतरं 'ततः' तदनन्तरं 'विशोधयेत्' अपनयेत् ॥३९॥ कुतः? इत्याह' मूलपतरराशितः ' प्रथमप्रस्तटराशेः, किं लक्षणात् ? इत्याह-एकोननवतेभ्यः त्रिभ्यः शतेभ्यः प्रतीतरूपेभ्यः सकाशात, ततः 'व्युत्सृष्टे' परिहते रूपोनेऽष्टगुणराशौ यत् ' शेषं ' अवशिष्टमवतिष्ठते 'त' यद्विवक्षितं ' प्रतरं ' प्रतरप्रमाणं 'तस्मिन् ' अवशिष्टराशौ 'संख्यातं' कृतसंख्यं वर्तते । यथा-रत्नप्रभायामेव द्वितीयप्रस्तटसंख्या द्विरूपा एकोना क्रियते जात एकः, तस्मिन्नष्टगुणे त्रिभ्य एकोननवतेभ्यः शतेभ्योऽपनीते शेषं त्रीणि शतान्येकाशीत्यधिकानि, अङ्कतोऽपि३८१,