________________
. नरकेन्द्रप्रकरणम्। (२५) उत्तरं ८, त्रयोदश प्रस्तटा गच्छः १३, ततो गच्छोत्तरयोः संवर्गे नातं चतुरुत्तरं शतम् १०४, तम्मिन्नुत्तरहीने पण्णवतिप्रमाणे कृते आदिना त्रिनवत्यधिकद्विशतप्रमाणेन युक्ते सति लब्धं सीमन्तकधनमिदम्३८९ । यदा अत एव राशेः प्रथमच्याः सर्वधनमानेतुमिप्यते तदासौ राशिरादियुक्तो विधीयते जातं ६८२, ततो गच्छस्य त्रयोदशलक्षणस्या भावादुक्त एव राशिरीक्रियते जातं ३४१, तस्मिन् गच्छे गुणिते लब्धं सर्वधनं ४ ४३३ । एवं शर्कराप्रभादिप्वपि आदिप्रमाणं गच्छप्रमाणं च विज्ञाय पूर्वक्रमेणान्तिमधनं च स्वयमेवाभ्यूह्य वाच्यमिति ॥ ४७ ॥ सांप्रतमाद्युत्तरगच्छक्रमेणैवान्त्यमध्यमसर्वधनानि यथा ज्ञायन्ते तथा करणमाह
गच्छगुणमुत्तरं उत्तरूणियं आइसहियमंतषणं । .: आदिजुयद्धं मज्झिमधणं तु गच्छाहयं सव्वं ॥४८॥
'गच्छगुणं' गच्छाभ्यस्तं 'उत्तरं' उक्तरूपमेव क्रियते, ततस्तदेव 'उत्तरोनितं' उत्तरप्रमाणराशिनोनीकृतं सद्यदा 'आदिसहितं' आदिराशिना युक्तं विधीयते तदा ‘अन्त्यधनं' पर्यन्तवर्तिप्रतरनरकावासप्रमाणं भवति । तथा 'आदियुताई' तस्यैवादियुक्तस्य यदर्द्ध दलम् , तत्किम् ? इत्याह-' मध्यमधनं ' मध्यवर्तिप्रतरनरकाग्रं भवति । तुशब्दों भिन्नक्रमे गच्छाहतमित्यम्यानन्तरं द्रष्टव्यः, ततश्च मध्यमधनमेव 'गच्छाहतं तु' गच्छाभ्यस्तं पुनः 'सर्व' इति सर्वधनं भवति । यथा-गच्छेनैकोनपञ्चाशल्लक्षणेन गुणितमुत्तरमष्टलक्षणं जातं ३९२, यदैतदेवोत्तरहीनं पञ्चकलक्षणादिसहितं च क्रियते तदा जातमिदं ३८९, एतदेव चान्त्यधनम् । यदा अयमेव राशिरादियुतोऽर्कीलतस्तदा जात