________________
देवेन्द्रप्रकरणम्। (१५९) पमाणि । विजयादिषु चतुर्पु पुनर्यद्यप्यनेन क्रमेण द्वात्रिंशदेव सागरोपमाण्युत्कृष्टा स्थितिः प्राप्नोति तथापि तत्र त्रयस्त्रिंशदेव, जघन्येन त्वेकत्रिंशत् । " तेत्तीस सागराइं, उक्कोसेणं ठिई भवे चउसु । विनयाइसु विन्नेया, जहण्णयं एगतीसं तु ॥ १ ॥” इति ॥ ३४८ ॥ अथ जघन्यामाह- .
पलियं अहिंयं दो सार साहिया सत्त दस य चोइस य । . सत्तरस सहस्सारे, तदुपरि एककमारोवे ॥ ३४६ ॥ .. 'पलियं ' ति पल्योपमं सौधर्मे । ' अधिकं ' साधिकं पल्योपमं ईशाने । 'दो सार' ति द्वे सागरोपमे सनत्कुमारे । साधिके द्वे सागरोपमे माहेन्द्रे । सप्त ब्रह्मलोके । दश लान्तके | [ चतुर्दश शुक्रे ] सागरोपमानि । सप्तदश सहस्रारे कल्पे । 'तदुपरि' लान्तकादिषु (आनतादिषु ) देवस्थानेप्कैकमारोपयेत्तावद्यावद्विजयादिप्वेकत्रिंशदिति ॥ ३४९ ॥ सांप्रतं च्यवनद्वारम्- एक्को व दो व तिरिण व, संखमसंखा व एगसमएणं ।
देवा चयंति नियमा, उववात्रो अो परं वोच्छं ।। ३५० ॥
एको वा द्वौ वा त्रयो वा ' संखमसंखा व ' त्ति संख्याता असं'. 'ख्याता वा — एगसमएणं ' ति एकसमयेनेत्यर्थः । देवाः ' सामान्यतो
भवनपत्यादयः प्रक्रमानुगताः सौधर्मादिदेवलोकवासिनो वा 'च्यवन्ते' हसन्ति 'नियमात् " अवश्यन्तयेति । ' उपपातं ' उत्पादं जीवा अत्रोत्पद्यन्त इत्येवंरूपमतः परं वक्ष्य इति ॥ ३५० ॥ मिच्छा सासणदिट्टी, सम्मदिट्टी य तिविह जीवा तु ।। अज्झवसायविसेसा, संधयणविसेलतो य गदी ॥ ३५१ ॥