________________
(१६०) . मुनिचन्द्रसूरिविरचितवृत्तिसमेतं. -- मिथ्यादृष्टयः सासादनदृष्टयः सम्यग्दृष्टयश्चेति त्रिविधा नीवाः संसारिणः पञ्चेन्द्रियतिर्यञ्चो मनुप्याश्च ये वर्तन्ते, ' तुः ' पूरणे, तेषां किम् ? इत्याह-' अध्यवसायविशेषात् ' मिथ्यात्वादिलक्षणपरिणामहेतुत्वात् 'संहननविशेषतश्च' वजर्षभनाराचादिसंहननविशेषात् 'च' समुच्चये 'गतिः' सौधर्मादिदेवलोकोत्पत्तिलक्षणा वाच्या । तत्र मिथ्यादृष्टयः सौधर्मादारभ्य नवमग्रेवेयकाणि यावत्सामग्रीवशादुत्पद्यन्ते । सासादनदृष्टीनां तु विशेषः सूत्रादवसेयः । सम्यग्दृष्टयस्तु सौधर्मादारभ्य यावदनुत्तरविमानानि तावत्सर्वत्र तथाविधाध्यवसायवशेनोत्पत्तिभाजो भवन्तीति । संस्थान(संहनन)विशेषात्पुनरित्थं गतिरवसेया। यथा- "छेवढेण उ गम्मइ, चत्तारि उ जाव आइमा कप्पा । वड्ढेज कप्पजुयलं, संघयणे कीलियाईए ॥ १ ॥" ॥ ३५१ ॥ . __ अथोर्ध्वगतिप्रस्तावादेव रत्नप्रभादीनां पृथ्वीनां लोकान्तं यावक्रमेण बुद्धयोच्छ्रितानां कस्याः पृथिव्याः कस्मिन्नन्तरे पातलक्षणा गतिर्भवतीति निरूपयन् गाथाचतुष्टयमाह
सत्त वि सहाणेहिं, पुढवीयो ऊसिया कहि पडंति । हेहा दोरहं दोपहं, कप्पाणं पंच पुढवीओ ॥ ३५२ ॥
सप्तापि न केवलमेकैकेत्यपिशब्दार्थः, ‘स्वस्थानेभ्यः' स्वकीयेभ्योऽवकाशेभ्यः 'पृथिव्यः' रत्नप्रभाद्याः 'उच्छ्रिताः' उत्पादिताः सत्यः कस्मिन्नन्तरे 'पतन्ति ' अवकाशं लभन्ते ? इति शिष्येण प्रष्टे सूरिराह-'अधस्तात् ' तलभागे [द्वयोः] द्वयोः कल्पयोः [पञ्च] एथिव्यः पतन्तीति । अत्र च वक्ष्यमाणान्तरान्यथानुपपत्तिवशेन क्वचित्साक्षादेव कल्पः क्वचित्कल्पावयवः कल्पशब्देनाभिधीयत इति ॥ ३५२॥ .