________________
(१५६) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं भिर्देवरूपैर्देवीरूपैश्चात्यन्तं पूरितं कर्तुं समर्थः । अथोत्तरं च गौतम ! असंख्येयानपि द्वीपसमुद्रांस्तैरेवाकीर्णान् कर्तुं समर्थः । एवं तत्सामा निका अपि प्रागभिहितशक्तियुक्ताः । यथा सौधर्मे तथा शेषेप्वपि यावदच्युतकल्पस्तावद्वैक्रियशक्तिव्यापारमुपर्युपर्यधिकाधिकतराधिकतमा वेति । एतच्च गौतम ! शक्तिविषयमात्रमुक्तम् , न पुनः कश्चिद्देवो देवी वा विकृतवान् विकुरुते विकरिप्यते च"इति । ये च अवेयकपञ्चानुत्तरदेवा न ते वैक्रियसमुद्घातमारभन्ते, तेषां स्वस्थप्रकृतितया . वैक्रियशरीरसाध्यप्रयोजनाभावादिति ॥ ३४३॥ अथ सातद्वारमाह
सायं सुहं महतं, इड्डीऍ महिड्डिया भवे तिविहा।
थोवा मझुक्कोसा, कप्पाईया य (उ) अहमिदा ॥३४४॥ - सत्-सुन्दरं तदेव स्वार्थिकाणप्रत्ययोपादानात्सातम्, किम् ? इत्याह'सुखं' शर्म ‘महत् ' मनुप्यसुखापेक्षयाऽतीवप्रकर्षवत् , जरारोगशीतवाताद्युपद्रवव्रातविकलत्वात्तेषाम् । इदानीं ऋद्विद्वारम्-ऋया महर्डिका देवा भवेयुस्त्रिविधाः । त्रैविध्यमेव दर्शयति-स्तोकाः' जघन्यर्द्धयः केचित्किल्विषादयः, 'मध्यमाः'. मध्यमईयः प्रकीर्णकानीकाधिपत्यादयः । 'उत्कृष्टाः' इन्द्रतत्सामानिकादयः, एवं तावत्कल्पेषु ऋद्वित्रैविध्यमुक्तम् । तदुपरि का वार्ता ? इत्याह- कल्पातीतास्तु' ग्रैवेयकाऽनुत्तरवासिनः पुनर्देवाः ‘अहमिन्द्राः ' अहमिन्द्र इत्यभिधानं येषां तेऽहमिन्द्राः; आत्माधिकस्य कम्यचित्तैरदर्शनादिति ॥ ३४४ ॥ अथ द्वारगाथान्तरमाह
देवाणं देवीणं, च विभूसा कामभोगमाउं च । चयणं च सबजीवा, कप्पे कप्पे य उववाभो ॥ ३४५॥