________________
. देवेन्द्रप्रकरणम् । (१५५) आनतप्राणतकल्पयोः वचनव्यत्ययश्च प्राकृतत्वात् ये 'देवाः । इन्द्रतत्सामानिकरूपास्ते पश्यन्ति पञ्चमी पृथ्वीम् । 'तां चैव' पञ्चमीमारणाच्युतयोर्देवा अवधिज्ञानेन पश्यन्ति परं विशुद्धतरामिति ॥३४१॥
छढि हेद्विममज्झिमगेवेजा सत्तमि च उवरिल्ला । संभिन्नलोगनालि, पासंति अणुत्तरा देवा ॥ ३४२ ॥ षष्ठी पृथ्वीं यावदधस्तनमध्यमग्रैवेयकाः, 'तत्स्था( तात्स्थ्या)त्तदयपदेशः ' इतिन्यायात् तद्गता देवाः । सप्तमी च पृथ्वी ' उपरितनाः' उपरितनौवेयकंत्रयगताः। संभिन्नां-किञ्चिदूनां लोकनालीं-त्रसनाडीरूपामूर्ध्वमधस्तिर्यक् च पश्यन्त्यनुत्तरा देवा इति ॥३४२ ॥ अथ समुद्धातवैक्रियद्वारे सममेवाह
वेल्यिसमुग्याओ, जाव उ कप्पोक्गा भवे देवा ।
एकेका य असंखे, विउव्वए पुरिसथीरूवे ॥ ३४३ ॥ • वैक्रियशरीराय सन्-एकीभावेन उत्-प्राबल्येन घातः-जीवप्रदेश्मनां बहिः क्षेपो वैक्रियसमुद्रातः, कियदूरम् ? इत्याह-यावत्तु 'कल्पोपगाः' भवनपत्यादयोऽच्युतावसाना भवेयुर्देवास्तावदेव । एकैकश्च' इन्द्रतत्सामानिकादिदेवोऽसंख्येयानि विकुरुते स्त्रीपुरुषरूपाणि यौगपद्येनैव, शक्तिरेवैपा एतेषां न पुनः क्रियापि । यथोक्तं भगवत्यां (शतक३ उद्दे० १ ) एवगर्थतः-"शको भदन्त! देवेन्द्रो देवराजः कियन्ति रूपाणि प्रभुर्विकर्तुम्” इति गौतमेन प्रष्टे भगवानुवाच—“यथा कश्चिद्युवा युवतिः ( तिं ) निबिडकरशालाग्रहणवता हस्तेन हस्ते गृह्णीयात् , चक्रस्य वा नाभिरायोजितारकसंचया सती निबिडं रूपमाबिभर्ति यथा, एवमेव प्रथमप्रवृत्तावपि जम्बूद्वीपट्टयप्रमाणं क्षेत्रं बहु